🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 45

The Book of the Horse-Sacrifice · Parva 14 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 14.45.1
ब्रह्मोवाच बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् महाभूतारविष्कम्भं निमेषपरिवेष्टनम्
MBh 14.45.2
जराशोकसमाविष्टं व्याधिव्यसनसंचरम् देशकालविचारीदं श्रमव्यायामनिस्वनम्
MBh 14.45.3
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम्
MBh 14.45.4
छायातपविलेखं च निमेषोन्मेषविह्वलम् घोरमोहजनाकीर्णं वर्तमानमचेतनम्
MBh 14.45.5
मासार्धमासगणितं विषमं लोकसंचरम् तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्
MBh 14.45.6
सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् स्वरविग्रहनाभीकं शोकसंघातवर्तनम्
MBh 14.45.7
क्रियाकारणसंयुक्तं रागविस्तारमायतम् लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम्
MBh 14.45.8
भयमोहपरीवारं भूतसंमोहकारकम् आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम्
MBh 14.45.9
महदादिविशेषान्तमसक्तप्रभवाव्ययम् मनोजवनमश्रान्तं कालचक्रं प्रवर्तते
MBh 14.45.10
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत्
MBh 14.45.11
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति
MBh 14.45.12
विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्
MBh 14.45.13
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः
MBh 14.45.14
यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी
MBh 14.45.15
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः जातौ गुणविशिष्टायां समावर्तेत वेदवित्
MBh 14.45.16
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह
MBh 14.45.17
देवतातिथिशिष्टाशी निरतो वेदकर्मसु इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि
MBh 14.45.18
न पाणिपादचपलो न नेत्रचपलो मुनिः न च वागङ्गचपल इति शिष्टस्य गोचरः
MBh 14.45.19
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत्
MBh 14.45.20
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्
MBh 14.45.21
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत्
MBh 14.45.22
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः
MBh 14.45.23
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु
MBh 14.45.24
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः
MBh 14.45.25
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.45local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷