🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 46

The Book of the Horse-Sacrifice · Parva 14 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 55 Shlokas

MBh 14.46.1
ब्रह्मोवाच एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान्
MBh 14.46.2
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः
MBh 14.46.3
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान्
MBh 14.46.4
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः धारयीत सदा दण्डं बैल्वं पालाशमेव वा
MBh 14.46.5
क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह
MBh 14.46.6
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः
MBh 14.46.7
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते
MBh 14.46.8
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः न संसरति जातीषु परमं स्थानमाश्रितः
MBh 14.46.9
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत्
MBh 14.46.10
चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः
MBh 14.46.11
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्
MBh 14.46.12
प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः
MBh 14.46.13
आमूलफलभिक्षाभिरर्चेदतिथिमागतम् यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः
MBh 14.46.14
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः
MBh 14.46.15
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः
MBh 14.46.16
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः
MBh 14.46.17
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत्
MBh 14.46.18
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः
MBh 14.46.19
अयाचितमसंकॢप्तमुपपन्नं यदृच्छया जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः
MBh 14.46.20
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत्
MBh 14.46.21
ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथंचन यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा
MBh 14.46.22
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन दैन्यभावाच्च भूतानां संविभज्य सदा बुधः
MBh 14.46.23
नाददीत परस्वानि न गृह्णीयादयाचितम् न किंचिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः
MBh 14.46.24
मृदमापस्तथाश्मानं पत्रपुष्पफलानि च असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान्
MBh 14.46.25
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत्
MBh 14.46.26
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने
MBh 14.46.27
वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित् लाभे न च प्रहृष्येत नालाभे विमना भवेत्
MBh 14.46.28
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः
MBh 14.46.29
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्
MBh 14.46.30
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् न चान्यमनुभिक्षेत भिक्षमाणः कथंचन
MBh 14.46.31
न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम्
MBh 14.46.32
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम्
MBh 14.46.33
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत्
MBh 14.46.34
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा
MBh 14.46.35
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च अक्रोधश्चानसूया च दमो नित्यमपैशुनम्
MBh 14.46.36
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः अपापमशठं वृत्तमजिह्मं नित्यमाचरेत्
MBh 14.46.37
आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च लोकसंग्रहधर्मं च नैव कुर्यान्न कारयेत्
MBh 14.46.38
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् समः सर्वेषु भूतेषु स्थावरेषु चरेषु च
MBh 14.46.39
परं नोद्वेजयेत्कंचिन्न च कस्यचिदुद्विजेत् विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते
MBh 14.46.40
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः
MBh 14.46.41
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् न प्रत्यक्षं परोक्षं वा किंचिद्दुष्टं समाचरेत्
MBh 14.46.42
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः
MBh 14.46.43
निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च निर्ममो निरहंकारो निर्योगक्षेम एव च
MBh 14.46.44
निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः
MBh 14.46.45
अपाणिपादपृष्ठं तमशिरस्कमनूदरम् प्रहीणगुणकर्माणं केवलं विमलं स्थिरम्
MBh 14.46.46
अगन्धरसमस्पर्शमरूपाशब्दमेव च अत्वगस्थ्यथ वामज्जममांसमपि चैव ह
MBh 14.46.47
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः
MBh 14.46.48
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता
MBh 14.46.49
तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत्
MBh 14.46.50
अमूढो मूढरूपेण चरेद्धर्ममदूषयन् यथैनमवमन्येरन्परे सततमेव हि
MBh 14.46.51
तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् यो ह्येवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते
MBh 14.46.52
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा
MBh 14.46.53
सर्वमेतत्प्रसंख्याय सम्यक्संत्यज्य निर्मलः ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः
MBh 14.46.54
एतदेवान्तवेलायां परिसंख्याय तत्त्ववित् ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः
MBh 14.46.55
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 55 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.46local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷