🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 44

The Book of the Horse-Sacrifice · Parva 14 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 14.44.1
ब्रह्मोवाच यदादिमध्यपर्यन्तं ग्रहणोपायमेव च नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः
MBh 14.44.2
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः
MBh 14.44.3
भूमिरादिस्तु गन्धानां रसानामाप एव च रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः
MBh 14.44.4
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते
MBh 14.44.5
सावित्री सर्वविद्यानां देवतानां प्रजापतिः ओंकारः सर्ववेदानां वचसां प्राण एव च यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते
MBh 14.44.6
गायत्री छन्दसामादिः पशूनामज उच्यते गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः
MBh 14.44.7
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः
MBh 14.44.8
कृतमादिर्युगानां च सर्वेषां नात्र संशयः हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा
MBh 14.44.9
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः
MBh 14.44.10
स्थावराणां च भूतानां सर्वेषामविशेषतः ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः
MBh 14.44.11
अहं प्रजापतीनां च सर्वेषां नात्र संशयः मम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृतः
MBh 14.44.12
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा
MBh 14.44.13
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता तथा सरोदपानानां सर्वेषां सागरोऽग्रजः
MBh 14.44.14
देवदानवभूतानां पिशाचोरगरक्षसाम् नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः
MBh 14.44.15
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते
MBh 14.44.16
आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च
MBh 14.44.17
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम्
MBh 14.44.18
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्
MBh 14.44.19
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम्
MBh 14.44.20
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते
MBh 14.44.21
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.44local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷