🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 43
The Book of the Horse-Sacrifice · Parva 14 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 40 Shlokas
MBh 14.43.1
ब्रह्मोवाच
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्
MBh 14.43.2
अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम्
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च
MBh 14.43.3
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः
एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः
MBh 14.43.4
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्
श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः
MBh 14.43.5
शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा
एते पर्वतराजानो गणानां मरुतस्तथा
MBh 14.43.6
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः
यमः पितॄणामधिपः सरितामथ सागरः
MBh 14.43.7
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते
MBh 14.43.8
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः
MBh 14.43.9
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः
दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा
MBh 14.43.10
दिशामुदीची विप्राणां सोमो राजा प्रतापवान्
कुबेरः सर्वयक्षाणां देवतानां पुरंदरः
एष भूतादिकः सर्गः प्रजानां च प्रजापतिः
MBh 14.43.11
सर्वेषामेव भूतानामहं ब्रह्ममयो महान्
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते
MBh 14.43.12
राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान्
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः
MBh 14.43.13
नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम्
देवदानवनागानां सर्वेषामीश्वरो हि सः
MBh 14.43.14
भगदेवानुयातानां सर्वासां वामलोचना
माहेश्वरी महादेवी प्रोच्यते पार्वतीति या
MBh 14.43.15
उमां देवीं विजानीत नारीणामुत्तमां शुभाम्
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा
MBh 14.43.16
धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे
MBh 14.43.17
राज्ञां हि विषये येषामवसीदन्ति साधवः
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः
MBh 14.43.18
राज्ञां तु विषये येषां साधवः परिरक्षिताः
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः
MBh 14.43.19
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा
MBh 14.43.20
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः
MBh 14.43.21
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः
धरणी सर्वभूतानां पृथिवी गन्धलक्षणा
MBh 14.43.22
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात्
MBh 14.43.23
मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः
MBh 14.43.24
लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम्
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्
MBh 14.43.25
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्
अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम्
MBh 14.43.26
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम्
MBh 14.43.27
पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते
MBh 14.43.28
अपां धातुरसो नित्यं जिह्वया स तु गृह्यते
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते
MBh 14.43.29
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते
चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते
MBh 14.43.30
वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः
त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते
MBh 14.43.31
आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः
MBh 14.43.32
मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते
हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते
MBh 14.43.33
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा
निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः
MBh 14.43.34
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः
MBh 14.43.35
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्
सदा पश्याम्यहं लीनं विजानामि शृणोमि च
MBh 14.43.36
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति
MBh 14.43.37
आदिमध्यावसानान्तं सृज्यमानमचेतनम्
न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः
MBh 14.43.38
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति
गुणानां गुणभूतानां यत्परं परतो महत्
MBh 14.43.39
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित्
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ
MBh 14.43.40
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 42
- Next chapter · Aśvamedhika-Parva Ch 44 →
Sources and Connected Readings
Continue from these 40 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.43local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷