🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 42

The Book of the Horse-Sacrifice · Parva 14 · 62 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 62 Shlokas

MBh 14.42.1
ब्रह्मोवाच अहंकारात्प्रसूतानि महाभूतानि पञ्च वै पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
MBh 14.42.2
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च
MBh 14.42.3
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्
MBh 14.42.4
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्
MBh 14.42.5
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन
MBh 14.42.6
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः
MBh 14.42.7
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिंचनाः मांसशोणितसंघाता अन्योन्यस्योपजीविनः
MBh 14.42.8
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः प्राणापानावुदानश्च समानो व्यान एव च
MBh 14.42.9
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत्
MBh 14.42.10
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी
MBh 14.42.11
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते
MBh 14.42.12
एकादश च यान्याहुरिन्द्रियाणि विशेषतः अहंकारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः
MBh 14.42.13
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत्
MBh 14.42.14
इन्द्रियग्राम इत्येष मन एकादशं भवेत् एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते
MBh 14.42.15
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः
MBh 14.42.16
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत्
MBh 14.42.17
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः
MBh 14.42.18
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्
MBh 14.42.19
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते
MBh 14.42.20
अचराण्यपि भूतानि खेचराणि तथैव च अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान्
MBh 14.42.21
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते
MBh 14.42.22
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः
MBh 14.42.23
द्विपादबहुपादानि तिर्यग्गतिमतीनि च जरायुजानि भूतानि वित्त तान्यपि सत्तमाः
MBh 14.42.24
द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना तपः कर्म च यत्पुण्यमित्येष विदुषां नयः
MBh 14.42.25
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम्
MBh 14.42.26
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः विमुक्तः सर्वपापेभ्य इति चैव निबोधत
MBh 14.42.27
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्
MBh 14.42.28
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम्
MBh 14.42.29
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्
MBh 14.42.30
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्
MBh 14.42.31
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम्
MBh 14.42.32
एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम्
MBh 14.42.33
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्
MBh 14.42.34
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्
MBh 14.42.35
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः
MBh 14.42.36
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम्
MBh 14.42.37
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम्
MBh 14.42.38
अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम्
MBh 14.42.39
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम्
MBh 14.42.40
यथावदध्यात्मविधिरेष वः कीर्तितो मया ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह
MBh 14.42.41
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च सर्वाण्येतानि संधाय मनसा संप्रधारयेत्
MBh 14.42.42
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते ज्ञानसंपन्नसत्त्वानां तत्सुखं विदुषां मतम्
MBh 14.42.43
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा
MBh 14.42.44
गुणागुणमनासङ्गमेकचर्यमनन्तरम् एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम्
MBh 14.42.45
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा
MBh 14.42.46
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति
MBh 14.42.47
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते
MBh 14.42.48
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते तथेन्द्रियनिरोधेन महानात्मा प्रकाशते
MBh 14.42.49
यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम्
MBh 14.42.50
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च मही पङ्कधरं घोरमाकाशं श्रवणं तथा
MBh 14.42.51
रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्
MBh 14.42.52
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् संसर्गाभिरतं मूढं शरीरमिति धारणा
MBh 14.42.53
दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते
MBh 14.42.54
एतन्महार्णवं घोरमगाधं मोहसंज्ञितम् विसृजेत्संक्षिपेच्चैव बोधयेत्सामरं जगत्
MBh 14.42.55
कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान्
MBh 14.42.56
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते
MBh 14.42.57
कामकूलामपारान्तां मनःस्रोतोभयावहाम् नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत्
MBh 14.42.58
स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् मनो मनसि संधाय पश्यत्यात्मानमात्मनि
MBh 14.42.59
सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि एकधा बहुधा चैव विकुर्वाणस्ततस्ततः
MBh 14.42.60
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः
MBh 14.42.61
स हि धाता विधाता च स प्रभुः सर्वतोमुखः हृदयं सर्वभूतानां महानात्मा प्रकाशते
MBh 14.42.62
तं विप्रसंघाश्च सुरासुराश्च; यक्षाः पिशाचाः पितरो वयांसि रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव सदा स्तुवन्ति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 62 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.42local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷