🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 35
The Book of the Horse-Sacrifice · Parva 14 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 40 Shlokas
MBh 14.35.1
अर्जुन उवाच
ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः
MBh 14.35.2
वासुदेव उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह
MBh 14.35.3
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम्
शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परंतप
MBh 14.35.4
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः
याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे
MBh 14.35.5
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज
MBh 14.35.6
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते
MBh 14.35.7
शिष्य उवाच
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्
कुतो जातानि भूतानि स्थावराणि चराणि च
MBh 14.35.8
केन जीवन्ति भूतानि तेषामायुः किमात्मकम्
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः
के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम्
MBh 14.35.9
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः
MBh 14.35.10
वासुदेव उवाच
तस्मै संप्रतिपन्नाय यथावत्परिपृच्छते
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने
छायाभूताय दान्ताय यतये ब्रह्मचारिणे
MBh 14.35.11
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम
MBh 14.35.12
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम्
वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम्
MBh 14.35.13
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्
सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम्
MBh 14.35.14
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः
MBh 14.35.15
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्
बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा
MBh 14.35.16
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः
MBh 14.35.17
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम्
MBh 14.35.18
तं प्रणम्य महात्मानं सुखासीनं महर्षयः
पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम्
MBh 14.35.19
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात्
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम्
MBh 14.35.20
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति
प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ
MBh 14.35.21
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः
तत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम्
MBh 14.35.22
ब्रह्मोवाच
सत्याद्भूतानि जातानि स्थावराणि चराणि च
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः
MBh 14.35.23
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम्
MBh 14.35.24
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः
सत्याद्भूतानि जातानि भूतं सत्यमयं महत्
MBh 14.35.25
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः
अतीतक्रोधसंतापा नियता धर्मसेतवः
MBh 14.35.26
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान्
तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान्
MBh 14.35.27
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक्
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः
MBh 14.35.28
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः
MBh 14.35.29
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम्
निबोधत महाभागा निखिलेन परं पदम्
MBh 14.35.30
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम्
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम्
ततः परं तु विज्ञेयमध्यात्मं परमं पदम्
MBh 14.35.31
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः
नोपैति यावदध्यात्मं तावदेतान्न पश्यति
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत
MBh 14.35.32
फलमूलानिलभुजां मुनीनां वसतां वने
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते
MBh 14.35.33
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते
MBh 14.35.34
इत्येते देवयाना वः पन्थानः परिकीर्तिताः
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः
MBh 14.35.35
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ
MBh 14.35.36
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना
विषयस्थानि सर्वाणि वर्तमानानि भागशः
MBh 14.35.37
महानात्मा तथाव्यक्तमहंकारस्तथैव च
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च
MBh 14.35.38
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः
चतुर्विंशतिरेषा वस्तत्त्वानां संप्रकीर्तिता
MBh 14.35.39
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ
स धीरः सर्वभूतेषु न मोहमधिगच्छति
MBh 14.35.40
तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः
विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 34
- Next chapter · Aśvamedhika-Parva Ch 36 →
Sources and Connected Readings
Continue from these 40 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.35local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷