🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 29
The Book of the Horse-Sacrifice · Parva 14 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 22 Shlokas
MBh 14.29.1
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि
MBh 14.29.2
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
येन सागरपर्यन्ता धनुषा निर्जिता मही
MBh 14.29.3
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम्
MBh 14.29.4
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते
MBh 14.29.5
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो
MBh 14.29.6
अर्जुन उवाच
मत्समो यदि संग्रामे शरासनधरः क्वचित्
विद्यते तं ममाचक्ष्व यः समासीत मां मृधे
MBh 14.29.7
समुद्र उवाच
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति
MBh 14.29.8
ततः स राजा प्रययौ क्रोधेन महता वृतः
स तमाश्रममागम्य राममेवान्वपद्यत
MBh 14.29.9
स रामप्रतिकूलानि चकार सह बन्धुभिः
आयासं जनयामास रामस्य च महात्मनः
MBh 14.29.10
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः
प्रदहद्रिपुसैन्यानि तदा कमललोचने
MBh 14.29.11
ततः परशुमादाय स तं बाहुसहस्रिणम्
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम्
MBh 14.29.12
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः
असीनादाय शक्तीश्च भार्गवं पर्यवारयन्
MBh 14.29.13
रामोऽपि धनुरादाय रथमारुह्य सत्वरः
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम्
MBh 14.29.14
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव
MBh 14.29.15
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्
MBh 14.29.16
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः
MBh 14.29.17
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत
MBh 14.29.18
एकविंशतिमेधान्ते रामं वागशरीरिणी
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता
MBh 14.29.19
राम राम निवर्तस्व कं गुणं तात पश्यसि
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः
MBh 14.29.20
तथैव तं महात्मानमृचीकप्रमुखास्तदा
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्
MBh 14.29.21
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्
नार्हन्तीह भवन्तो मां निवारयितुमित्युत
MBh 14.29.22
पितर ऊचुः
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 28
- Next chapter · Aśvamedhika-Parva Ch 30 →
Sources and Connected Readings
Continue from these 22 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.29local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷