🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 28

The Book of the Horse-Sacrifice · Parva 14 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 14.28.1
ब्राह्मण उवाच गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि न चापि शब्दान्विविधाञ्शृणोमि; न चापि संकल्पमुपैमि किंचित्
MBh 14.28.2
अर्थानिष्टान्कामयते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः कामद्वेषावुद्भवतः स्वभावा;त्प्राणापानौ जन्तुदेहान्निवेश्य
MBh 14.28.3
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा;न्भूतात्मानं लक्षयेयं शरीरे तस्मिंस्तिष्ठन्नास्मि शक्यः कथंचि;त्कामक्रोधाभ्यां जरया मृत्युना च
MBh 14.28.4
अकामयानस्य च सर्वकामा;नविद्विषाणस्य च सर्वदोषान् न मे स्वभावेषु भवन्ति लेपा;स्तोयस्य बिन्दोरिव पुष्करेषु
MBh 14.28.5
नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून्स्वभावान् न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम्
MBh 14.28.6
अत्राप्युदाहरन्तीममितिहासं पुरातनम् अध्वर्युयतिसंवादं तं निबोध यशस्विनि
MBh 14.28.7
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन्
MBh 14.28.8
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा
MBh 14.28.9
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति यदस्य वारिजं किंचिदपस्तत्प्रतिपद्यते
MBh 14.28.10
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन
MBh 14.28.11
यतिरुवाच प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्
MBh 14.28.12
अनु त्वा मन्यतां माता पिता भ्राता सखापि च मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः
MBh 14.28.13
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा
MBh 14.28.14
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः
MBh 14.28.15
इन्धनस्य तु तुल्येन शरीरेण विचेतसा हिंसा निर्वेष्टुकामानामिन्धनं पशुसंज्ञितम्
MBh 14.28.16
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे
MBh 14.28.17
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम्
MBh 14.28.18
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते प्रत्यक्षतः साधयामो न परोक्षमुपास्महे
MBh 14.28.19
अध्वर्युरुवाच भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान्
MBh 14.28.20
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे
MBh 14.28.21
प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज
MBh 14.28.22
यतिरुवाच अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते
MBh 14.28.23
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः
MBh 14.28.24
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित्
MBh 14.28.25
अध्वर्युरुवाच सद्भिरेवेह संवासः कार्यो मतिमतां वर भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम
MBh 14.28.26
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज
MBh 14.28.27
ब्राह्मण उवाच उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् अध्वर्युरपि निर्मोहः प्रचचार महामखे
MBh 14.28.28
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.28local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷