🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 27

The Book of the Horse-Sacrifice · Parva 14 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 14.27.1
ब्राह्मण उवाच संकल्पदंशमशकं शोकहर्षहिमातपम् मोहान्धकारतिमिरं लोभव्यालसरीसृपम्
MBh 14.27.2
विषयैकात्ययाध्वानं कामक्रोधविरोधकम् तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम्
MBh 14.27.3
ब्राह्मण्युवाच क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम्
MBh 14.27.4
ब्राह्मण उवाच न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम् न तदस्त्यपृथग्भावे किंचिद्दूरतरं ततः
MBh 14.27.5
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम्
MBh 14.27.6
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न
MBh 14.27.7
तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम्
MBh 14.27.8
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
MBh 14.27.9
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
MBh 14.27.10
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
MBh 14.27.11
शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
MBh 14.27.12
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
MBh 14.27.13
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः
MBh 14.27.14
एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः
MBh 14.27.15
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्
MBh 14.27.16
प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्
MBh 14.27.17
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते
MBh 14.27.18
सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च
MBh 14.27.19
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह
MBh 14.27.20
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्
MBh 14.27.21
गिरयः पर्वताश्चैव सन्ति तत्र समासतः नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम्
MBh 14.27.22
नदीनां संगमस्तत्र वैतानः समुपह्वरे स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम्
MBh 14.27.23
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते
MBh 14.27.24
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः तदरण्यमभिप्रेत्य यथाधीरमजायत
MBh 14.27.25
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.27local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷