🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 22

The Book of the Horse-Sacrifice · Parva 14 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 29 Shlokas

MBh 14.22.1
ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् सुभगे सप्तहोतॄणां विधानमिह यादृशम्
MBh 14.22.2
घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम् मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः
MBh 14.22.3
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने
MBh 14.22.4
ब्राह्मण्युवाच सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो
MBh 14.22.5
ब्राह्मण उवाच गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता परस्परगुणानेते न विजानन्ति कर्हिचित्
MBh 14.22.6
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति
MBh 14.22.7
घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च न रसानधिगच्छन्ति जिह्वा तानधिगच्छति
MBh 14.22.8
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति
MBh 14.22.9
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति
MBh 14.22.10
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति
MBh 14.22.11
घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति
MBh 14.22.12
घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मन एव च न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति
MBh 14.22.13
अत्राप्युदाहरन्तीममितिहासं पुरातनम् इन्द्रियाणां च संवादं मनसश्चैव भामिनि
MBh 14.22.14
मन उवाच न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते
MBh 14.22.15
न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन प्रवरं सर्वभूतानामहमस्मि सनातनम्
MBh 14.22.16
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः
MBh 14.22.17
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः
MBh 14.22.18
इन्द्रियाण्यूचुः एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि
MBh 14.22.19
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा
MBh 14.22.20
अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च यदि संकल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत्
MBh 14.22.21
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा
MBh 14.22.22
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च
MBh 14.22.23
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि
MBh 14.22.24
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति
MBh 14.22.25
विषयानेवमस्माभिर्दर्शितानभिमन्यसे अनागतानतीतांश्च स्वप्ने जागरणे तथा
MBh 14.22.26
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम्
MBh 14.22.27
बहूनपि हि संकल्पान्मत्वा स्वप्नानुपास्य च बुभुक्षया पीड्यमानो विषयानेव धावसि
MBh 14.22.28
अगारमद्वारमिव प्रविश्य; संकल्पभोगो विषयानविन्दन् प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव
MBh 14.22.29
कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः अस्मानृते नास्ति तवोपलब्धि;स्त्वामप्यृतेऽस्मान्न भजेत हर्षः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 29 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.22local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷