🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 20
The Book of the Horse-Sacrifice · Parva 14 · 27 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 14.20local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 27 Shlokas
MBh 14.20.1
[वा]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
दम्पत्यॊः पार्थ संवादम अभयं नाम नामतः
MBh 14.20.2
बराह्मणी बराह्मणं कं चिज जञानविज्ञानपारगम
दृष्ट्वा विविक्त आसीनं भार्या भर्तारम अब्रवीत
MBh 14.20.3
कं नु लॊकं गमिष्यामि तवाम अहं पतिम आश्रिता
नयस्तकर्माणम आसीनं कीनाशम अविचक्षणम
MBh 14.20.4
भार्याः पतिकृताँल लॊकान आप्नुवन्तीति नः शरुतम
तवाम अहं पतिम आसाद्य कां गमिष्यामि वै गतिम
MBh 14.20.5
एवम उक्तः स शान्तात्मा ताम उवाच हसन्न इव
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे
MBh 14.20.6
गराह्यं दृश्यं च शराव्यं च यद इदं कर्म विद्यते
एतद एव वयवस्यन्ति कर्म कर्मेति कर्मिणः
MBh 14.20.7
मॊहम एव नियच्छन्ति कर्मणा जञानवर्जिताः
नैष्कर्म्यं न च लॊके ऽसमिन मौर्तम इत्य उपलभ्यते
MBh 14.20.8
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम
जन्मादि मूर्ति भेदानां कर्म भूतेषु वर्तते
MBh 14.20.9
रक्षॊभिर वध्यमानेषु दृश्यद्रव्येषु कर्मसु
आत्मस्थम आत्मना तेन दृष्टम आयतनं मया
MBh 14.20.10
यत्र तद बरह्म निर्द्वंद्वं यत्र सॊमः सहाग्निना
वयवायं कुरुते नित्यं धीरॊ भूतानि धारयन
MBh 14.20.11
यत्र बरह्मादयॊ युक्तास तद अक्षरम उपासते
विद्वांसः सुव्रता यत्र शान्तात्मानॊ जितेन्द्रियाः
MBh 14.20.12
घराणेन न तद आघ्रेयं न तद आद्यम च जिह्वया
सपर्शेन च न तत सपृश्यं मनसा तव एव गम्यते
MBh 14.20.13
चक्षुषा न विषह्यं च यत किं चिच छरवणात परम
अगन्धम अरस सपर्शम अरूपाशब्दम अव्ययम
MBh 14.20.14
यतः परवर्तते तन्त्रं यत्र च परतितिष्ठति
पराणॊ ऽपानः समानश च वयानश चॊदान एव च
MBh 14.20.15
तत एव परवर्तन्ते तम एव परविशन्ति च
समानव्यानयॊर मध्ये पराणापानौ विचेरतुः
MBh 14.20.16
तस्मिन सुप्ते परलीयेते समानॊ वयान एव च
अपान पराणयॊर मध्ये उदानॊ वयाप्य तिष्ठति
तस्माच छयानं पुरुषं पराणापानौ न मुञ्चतः
MBh 14.20.17
पराणान आयम्यते येन तद उदानं परचक्षते
तस्मात तपॊ वयवस्यन्ति तद भवं बरह्मवादिनः
MBh 14.20.18
तेषाम अन्यॊन्यभक्षाणां सर्वेषां देव चारिणाम
अग्निर वैश्वानरॊ मध्ये सप्तधा विहितॊ ऽनतरा
MBh 14.20.19
घराणं जिह्वा च चक्षुश च तवक च शरॊत्रं च पञ्चमम
मनॊ बुद्धिश च सप्तैता जिह्वा वैश्वानरार्चिषः
MBh 14.20.20
घरेयं पेयं च दृश्यं च सपृश्यं शरव्यं तथैव च
मन्तव्यम अथ बॊद्धव्यं ताः सप्त समिधॊ मम
MBh 14.20.21
घराता भक्षयिता दरष्टा सप्रष्टा शरॊता च पञ्चमः
मन्ता बॊद्धा च सप्तैते भवन्ति परमर्त्विजः
MBh 14.20.22
घरेये पेये च देश्ये च सपृश्ये शरव्ये तथैव च
हवींष्य अग्निषु हॊतारः सप्तधा सप्त सप्तसु
सम्यक परक्षिप्य विद्वांसॊ जनयन्ति सवयॊनिषु
MBh 14.20.23
पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
मनॊ बुद्धिश च सप्तैत यॊनिर इत्य एव शब्दिताः
MBh 14.20.24
हविर भूता गुणाः सर्वे परविशन्त्य अग्निजं मुखम
अन्तर वासम उषित्वा च जायन्ते सवासु यॊनिषु
तत्रैव च निरुध्यन्ते परलये भूतभावने
MBh 14.20.25
ततः संजायते गन्धस ततः संजायते रसः
ततः संजायते रूपं ततः सपर्शॊ ऽभिजायते
MBh 14.20.26
ततः संजायते शब्दः संशयस तत्र जायते
ततः संजायते निष्ठा जन्मैतत सप्तधा विदुः
MBh 14.20.27
अनेनैव परकारेण परगृहीतं पुरातनैः
पूर्णाहुतिभिर आपूर्णास ते ऽभिपूर्यन्ति तेजसा
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 19
- Next chapter · Aśvamedhika-Parva Ch 21 →
🪷 जय व्यास भगवान् 🪷