🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 19
The Book of the Horse-Sacrifice · Parva 14 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 60 Shlokas
MBh 14.19.1
ब्राह्मण उवाच
यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन्
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत्
MBh 14.19.2
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः
व्यपेतभयमन्युश्च कामहा मुच्यते नरः
MBh 14.19.3
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः
अमानी निरभीमानः सर्वतो मुक्त एव सः
MBh 14.19.4
जीवितं मरणं चोभे सुखदुःखे तथैव च
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते
MBh 14.19.5
न कस्यचित्स्पृहयते नावजानाति किंचन
निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः
MBh 14.19.6
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित्
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते
MBh 14.19.7
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः
धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते
MBh 14.19.8
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम्
अस्वस्थमवशं नित्यं जन्मसंसारमोहितम्
MBh 14.19.9
वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव
MBh 14.19.10
अगन्धरसमस्पर्शमशब्दमपरिग्रहम्
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते
MBh 14.19.11
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम्
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते
MBh 14.19.12
विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान्
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः
MBh 14.19.13
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्
परमाप्नोति संशान्तमचलं दिव्यमक्षरम्
MBh 14.19.14
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः
MBh 14.19.15
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि
MBh 14.19.16
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत्
MBh 14.19.17
तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि
MBh 14.19.18
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि
MBh 14.19.19
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति
MBh 14.19.20
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति
MBh 14.19.21
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत्
योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ
MBh 14.19.22
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम्
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्
MBh 14.19.23
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत्
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः
MBh 14.19.24
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते
विनिवृत्य जरामृत्यू न हृष्यति न शोचति
MBh 14.19.25
देवानामपि देवत्वं युक्तः कारयते वशी
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्
MBh 14.19.26
विनश्यत्स्वपि लोकेषु न भयं तस्य जायते
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्
MBh 14.19.27
दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः
न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः
MBh 14.19.28
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते
नातः सुखतरं किंचिल्लोके क्वचन विद्यते
MBh 14.19.29
सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति
तदैव न स्पृहयते साक्षादपि शतक्रतोः
MBh 14.19.30
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु
MBh 14.19.31
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे
पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः
MBh 14.19.32
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत्
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः
MBh 14.19.33
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते
तस्मिन्काये मनश्चार्यं न कथंचन बाह्यतः
MBh 14.19.34
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्
MBh 14.19.35
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्
MBh 14.19.36
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्
MBh 14.19.37
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते
कथं रसत्वं व्रजति शोणितं जायते कथम्
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति
MBh 14.19.38
कथमेतानि सर्वाणि शरीराणि शरीरिणाम्
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक्
MBh 14.19.39
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि
MBh 14.19.40
जीवः कायं वहति चेच्चेष्टयानः कलेवरम्
किंवर्णं कीदृशं चैव निवेशयति वै मनः
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ
MBh 14.19.41
इति संपरिपृष्टोऽहं तेन विप्रेण माधव
प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम
MBh 14.19.42
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत्
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्
MBh 14.19.43
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्
MBh 14.19.44
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः
मनसैव प्रदीपेन महानात्मनि दृश्यते
MBh 14.19.45
सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम्
जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति
MBh 14.19.46
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम्
आत्मानमालोकयति मनसा प्रहसन्निव
MBh 14.19.47
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम
आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम्
MBh 14.19.48
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः
MBh 14.19.49
वासुदेव उवाच
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत
MBh 14.19.50
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि
MBh 14.19.51
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः
नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना
MBh 14.19.52
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित्
MBh 14.19.53
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना
MBh 14.19.54
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम्
MBh 14.19.55
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी
MBh 14.19.56
एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्
MBh 14.19.57
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः
MBh 14.19.58
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ
MBh 14.19.59
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत्
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात्
MBh 14.19.60
एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 18
- Next chapter · Aśvamedhika-Parva Ch 20 →
Sources and Connected Readings
Continue from these 60 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.19local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷