🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 18
The Book of the Horse-Sacrifice · Parva 14 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 34 Shlokas
MBh 14.18.1
ब्राह्मण उवाच
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा
MBh 14.18.2
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्
MBh 14.18.3
पापं चापि तथैव स्यात्पापेन मनसा कृतम्
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते
MBh 14.18.4
यथा कर्मसमादिष्टं काममन्युसमावृतः
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम्
MBh 14.18.5
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम्
MBh 14.18.6
सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते
संप्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम्
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः
MBh 14.18.7
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः
MBh 14.18.8
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम्
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम्
MBh 14.18.9
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन्
तथा त्वमपि जानीहि गर्भे जीवोपपादनम्
MBh 14.18.10
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्
एवमेव शरीराणि प्रकाशयति चेतना
MBh 14.18.11
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम्
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते
MBh 14.18.12
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते
MBh 14.18.13
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै
आवर्तमानो जातीषु तथान्योन्यासु सत्तम
MBh 14.18.14
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्
दमः प्रशान्तता चैव भूतानां चानुकम्पनम्
MBh 14.18.15
संयमश्चानृशंस्यं च परस्वादानवर्जनम्
व्यलीकानामकरणं भूतानां यत्र सा भुवि
MBh 14.18.16
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः
MBh 14.18.17
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः
MBh 14.18.18
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः
MBh 14.18.19
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्
MBh 14.18.20
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते
MBh 14.18.21
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा
संसारतारणं ह्यस्य कालेन महता भवेत्
MBh 14.18.22
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते
सर्वं तत्कारणं येन निकृतोऽयमिहागतः
MBh 14.18.23
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम्
MBh 14.18.24
शरीरमात्मनः कृत्वा सर्वभूतपितामहः
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्
MBh 14.18.25
ततः प्रधानमसृजच्चेतना सा शरीरिणाम्
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः
MBh 14.18.26
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक्
MBh 14.18.27
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः
MBh 14.18.28
तस्य कालपरीमाणमकरोत्स पितामहः
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च
MBh 14.18.29
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते
MBh 14.18.30
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति
कायं चामेध्यसंघातं विनाशं कर्मसंहितम्
MBh 14.18.31
यच्च किंचित्सुखं तच्च सर्वं दुःखमिति स्मरन्
संसारसागरं घोरं तरिष्यति सुदुस्तरम्
MBh 14.18.32
जातीमरणरोगैश्च समाविष्टः प्रधानवित्
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति
MBh 14.18.33
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम
MBh 14.18.34
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम्
प्रोच्यमानं मया विप्र निबोधेदमशेषतः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 17
- Next chapter · Aśvamedhika-Parva Ch 19 →
Sources and Connected Readings
Continue from these 34 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.18local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷