🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 17

The Book of the Horse-Sacrifice · Parva 14 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 39 Shlokas

MBh 14.17.1
वासुदेव उवाच ततस्तस्योपसंगृह्य पादौ प्रश्नान्सुदुर्वचान् पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः
MBh 14.17.2
काश्यप उवाच कथं शरीरं च्यवते कथं चैवोपपद्यते कथं कष्टाच्च संसारात्संसरन्परिमुच्यते
MBh 14.17.3
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते
MBh 14.17.4
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति
MBh 14.17.5
ब्राह्मण उवाच एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु
MBh 14.17.6
सिद्ध उवाच आयुःकीर्तिकराणीह यानि कर्माणि सेवते शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः
MBh 14.17.7
आयुःक्षयपरीतात्मा विपरीतानि सेवते बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते
MBh 14.17.8
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान्
MBh 14.17.9
यदायमतिकष्टानि सर्वाण्युपनिषेवते अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन
MBh 14.17.10
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः
MBh 14.17.11
व्यायाममतिमात्रं वा व्यवायं चोपसेवते सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम्
MBh 14.17.12
रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते अपक्वानागते काले स्वयं दोषान्प्रकोपयन्
MBh 14.17.13
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् अथ चोद्बन्धनादीनि परीतानि व्यवस्यति
MBh 14.17.14
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा जीवितं प्रोच्यमानं तद्यथावदुपधारय
MBh 14.17.15
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै
MBh 14.17.16
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च
MBh 14.17.17
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम
MBh 14.17.18
जातीमरणसंविग्नाः सततं सर्वजन्तवः दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ
MBh 14.17.19
गर्भसंक्रमणे चापि मर्मणामतिसर्पणे तादृशीमेव लभते वेदनां मानवः पुनः
MBh 14.17.20
भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः
MBh 14.17.21
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम्
MBh 14.17.22
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः
MBh 14.17.23
ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नरः स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् तैरेव न विजानाति प्राणमाहारसंभवम्
MBh 14.17.24
तत्रैव कुरुते काये यः स जीवः सनातनः तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा
MBh 14.17.25
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ततः स चेतनो जन्तुर्नाभिजानाति किंचन
MBh 14.17.26
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना
MBh 14.17.27
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम्
MBh 14.17.28
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते
MBh 14.17.29
ब्राह्मणा ज्ञानसंपन्ना यथावच्छ्रुतनिश्चयाः इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः
MBh 14.17.30
यथान्धकारे खद्योतं लीयमानं ततस्ततः चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः
MBh 14.17.31
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा च्यवन्तं जायमानं च योनिं चानुप्रवेशितम्
MBh 14.17.32
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः
MBh 14.17.33
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः
MBh 14.17.34
इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः अवाक्स निरये पापो मानवः पच्यते भृशम् तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः
MBh 14.17.35
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात्
MBh 14.17.36
तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम्
MBh 14.17.37
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः
MBh 14.17.38
न तत्राप्यस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः
MBh 14.17.39
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् यथावत्तां निगदतः शृणुष्वावहितो द्विज

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 39 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.17local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷