🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 16
The Book of the Horse-Sacrifice · Parva 14 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 14.16.1
जनमेजय उवाच
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः
केशवार्जुनयोः का नु कथा समभवद्द्विज
MBh 14.16.2
वैशंपायन उवाच
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम्
तस्यां सभायां रम्यायां विजहार मुदा युतः
MBh 14.16.3
ततः कंचित्सभोद्देशं स्वर्गोद्देशसमं नृप
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ
MBh 14.16.4
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्
MBh 14.16.5
विदितं ते महाबाहो संग्रामे समुपस्थिते
माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम्
MBh 14.16.6
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात्
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः
MBh 14.16.7
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो
भवांश्च द्वारकां गन्ता नचिरादिव माधव
MBh 14.16.8
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत
परिष्वज्य महातेजा वचनं वदतां वरः
MBh 14.16.9
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्
MBh 14.16.10
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम्
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव
MBh 14.16.11
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः
MBh 14.16.12
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्
MBh 14.16.13
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे
MBh 14.16.14
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत्
MBh 14.16.15
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्
MBh 14.16.16
ब्राह्मण उवाच
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो
MBh 14.16.17
तत्तेऽहं संप्रवक्ष्यामि यथावन्मधुसूदन
शृणुष्वावहितो भूत्वा गदतो मम माधव
MBh 14.16.18
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः
आससाद द्विजं कंचिद्धर्माणामागतागमम्
MBh 14.16.19
गतागते सुबहुशो ज्ञानविज्ञानपारगम्
लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः
MBh 14.16.20
जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्
MBh 14.16.21
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः
MBh 14.16.22
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह
MBh 14.16.23
संभाषमाणमेकान्ते समासीनं च तैः सह
यदृच्छया च गच्छन्तमसक्तं पवनं यथा
MBh 14.16.24
तं समासाद्य मेधावी स तदा द्विजसत्तमः
चरणौ धर्मकामो वै तपस्वी सुसमाहितः
प्रतिपेदे यथान्यायं भक्त्या परमया युतः
MBh 14.16.25
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्
परिचारेण महता गुरुं वैद्यमतोषयत्
MBh 14.16.26
प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः
भावेन तोषयच्चैनं गुरुवृत्त्या परंतपः
MBh 14.16.27
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन
MBh 14.16.28
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम्
MBh 14.16.29
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः
MBh 14.16.30
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्
काममन्युपरीतेन तृष्णया मोहितेन च
MBh 14.16.31
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः
MBh 14.16.32
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः
सुखानि च विचित्राणि दुःखानि च मयानघ
MBh 14.16.33
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह
धननाशश्च संप्राप्तो लब्ध्वा दुःखेन तद्धनम्
MBh 14.16.34
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा
शारीरा मानसाश्चापि वेदना भृशदारुणाः
MBh 14.16.35
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः
पतनं निरये चैव यातनाश्च यमक्षये
MBh 14.16.36
जरा रोगाश्च सततं वासनानि च भूरिशः
लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया
MBh 14.16.37
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया
MBh 14.16.38
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्
आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा
MBh 14.16.39
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा
इतः परं गमिष्यामि ततः परतरं पुनः
ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः
MBh 14.16.40
नाहं पुनरिहागन्ता मर्त्यलोकं परंतप
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते
MBh 14.16.41
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः
अभिजाने च तदहं यदर्थं मा त्वमागतः
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम्
MBh 14.16.42
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम्
MBh 14.16.43
बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Aśvamedhika-Parva chapter-index (96 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Aśvamedhika-Parva Ch 15
- Next chapter · Aśvamedhika-Parva Ch 17 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 14.16local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷