🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 15

The Book of the Horse-Sacrifice · Parva 14 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 14.15.1
जनमेजय उवाच विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ
MBh 14.15.2
वैशंपायन उवाच विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ
MBh 14.15.3
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव तौ वनेषु विचित्रेषु पर्वतानां च सानुषु
MBh 14.15.4
शैलेषु रमणीयेषु पल्वलेषु नदीषु च चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने
MBh 14.15.5
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ प्रविश्य तां सभां रम्यां विजह्राते च भारत
MBh 14.15.6
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव कथायोगे कथायोगे कथयामासतुस्तदा
MBh 14.15.7
ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ
MBh 14.15.8
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः निश्चयज्ञः स पार्थाय कथयामास केशवः
MBh 14.15.9
पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः कथाभिः शमयामास पार्थं शौरिर्जनार्दनः
MBh 14.15.10
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः अपहृत्यात्मनो भारं विशश्रामेव सात्वतः
MBh 14.15.11
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः
MBh 14.15.12
विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह
MBh 14.15.13
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः भीमसेनप्रभावेन यमयोश्च नरोत्तम
MBh 14.15.14
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् धर्मेण निहतः संख्ये स च राजा सुयोधनः
MBh 14.15.15
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः
MBh 14.15.16
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह
MBh 14.15.17
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन
MBh 14.15.18
यत्र धर्मसुतो राजा यत्र भीमो महाबलः यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम
MBh 14.15.19
तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत रमणीयेषु पुण्येषु सहितस्य त्वयानघ
MBh 14.15.20
कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान्
MBh 14.15.21
सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति रोचतां गमनं मह्यं तवापि पुरुषर्षभ
MBh 14.15.22
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते
MBh 14.15.23
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना
MBh 14.15.24
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा
MBh 14.15.25
तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्
MBh 14.15.26
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति
MBh 14.15.27
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन
MBh 14.15.28
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन धार्तराष्ट्रो हतो राजा सबलः सपदानुगः
MBh 14.15.29
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः स्थिता समुद्रवसना सशैलवनकानना चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव
MBh 14.15.30
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ
MBh 14.15.31
तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति
MBh 14.15.32
इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः
MBh 14.15.33
प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह
MBh 14.15.34
इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः तथेति कृच्छ्रादिव वाचमीरय;ज्जनार्दनं संप्रतिपूज्य पार्थिव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.15local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷