🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 9

The Book of Hermitage Residence · Parva 15 · 26 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 15.9local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 26 Shlokas

MBh 15.9.1
[वै] ततॊ राज्ञाभ्यनुज्ञातॊ धृतराष्ट्रः परतापवान ययौ सवभवनं राजा गान्धार्यानुगतस तदा
MBh 15.9.2
मन्दप्राणगतिर धीमान कृच्छ्राद इव समुद्धरन पदातिः स महीपालॊ जीर्णॊ गजपतिर यथा
MBh 15.9.3
तम अन्वगच्छद विदुरॊ विद्वान सूतश च संजयः स चापि परमेष्वासः कृपः शारद्वतस तथा
MBh 15.9.4
स परविश्य गृहं राजा कृतपूर्वाह्णिक करियः तर्पयित्वा दविजश्रेष्ठान आहारम अकरॊत तदा
MBh 15.9.5
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी वधूभिर उपचारेण पूजिताभुङ्क्त भारत
MBh 15.9.6
कृताहारं कृताहाराः सर्वे ते विदुरादयः पाण्डवाश च कुरुश्रेष्ठम उपातिष्ठन्त तं नृपम
MBh 15.9.7
ततॊ ऽबरवीन महाराज कुन्तीपुत्रम उपह्वरे निषण्णं पाणिना पृष्ठे संस्पृशन्न अम्बिका सुतः
MBh 15.9.8
अप्रमादस तवया कार्यः सर्वथा कुरुनन्दन अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते
MBh 15.9.9
तत तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन राज्यं धर्मं च कौन्तेय विद्वान असि निबॊध तत
MBh 15.9.10
विद्या वृद्धान सदैव तवम उपासीथा युधिष्ठिर शृणुयास ते च यद बरूयुः कुर्याश चैवाविचारयन
MBh 15.9.11
परातर उत्थाय तान राजन पूजयित्वा यथाविधि कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम आत्मनः
MBh 15.9.12
ते तु संमानिता राजंस तवया राज्यहितार्थिना परवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन
MBh 15.9.13
इन्द्रियाणि च सर्वाणि वाजिवत परिपालय हिताय वै भविष्यन्ति रक्षितं दरविणं यथा
MBh 15.9.14
अमात्यान उपधातीतान पितृपैतामहाञ शुचीन दान्तान कर्मसु सर्वेषु मुख्यान मुख्येषु यॊजयेः
MBh 15.9.15
चारयेथाश च सततं चारैर अव्विदितैः परान परीक्षितैर बहुविधं सवराष्ट्रेषु परेषु च
MBh 15.9.16
पुरं च ते सुगुप्तं सयाद दृढप्राकारतॊरणम अट्टाट्टालक संबाधं षट पथं सर्वतॊदिशम
MBh 15.9.17
तस्य दवाराणि कार्याणि पर्याप्तानि बृहन्ति च सर्वतः सुविभक्तानि यन्त्रैर आरक्षितानि च
MBh 15.9.18
पुरुषैर अलम अर्थज्ञैर विदितैः कुलशीलतः आत्मा च रक्ष्यः सततं भॊजनादिषु भारत
MBh 15.9.19
विहाराहार कालेषु माल्यशय्यासनेषु च सत्रियश च ते सुगुप्ताः सयुर वृद्धैर आप्तैर अधिष्ठिताः शीलवद्भिः कुलीनैश च विद्वद्भिश च युधिष्ठिर
MBh 15.9.20
मन्त्रिणश चैव कुर्वीथा दविजान विद्या विशारदान विनीतांश च कुलीनांश च धर्मार्थकुशलान ऋजून
MBh 15.9.21
तैः सार्धं मन्त्रयेथास तवं नात्यर्थं बहुभिः सह समस्तैर अपि च वयस्तैर वयपदेशेन केन चित
MBh 15.9.22
सुसंवृतं मन्त्रगृहं सथलं चारुह्य मन्त्रयेः अरण्ये निःशलाके वा न च रात्रौ कथं चन
MBh 15.9.23
वानराः पक्षिणश चैव ये मनुष्यानुकारिणः सर्वे मन्त्रगृहे वर्ज्या ये चापि जड पङ्गुकाः
MBh 15.9.24
मन्त्रभेदे हि ये दॊषा भवन्ति पृथिवीक्षिताम न ते शक्याः समाधातुं कथं चिद इति मे मतिः
MBh 15.9.25
दॊषांश च मन्त्रभेदेषु बरूयास तवं मन्त्रिमण्डले अभेदे च गुणान राजन पुनः पुनर अरिंदम
MBh 15.9.26
पौरजानपदानां च शौचाशौचं युधिष्ठिरः यथा सयाद विदितं राजंस तथा कार्यम अरिंदम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷