🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 10

The Book of Hermitage Residence · Parva 15 · 16 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 16 Shlokas

MBh 15.10.1
धृतराष्ट्र उवाच व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः
MBh 15.10.2
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर
MBh 15.10.3
आदानरुचयश्चैव परदाराभिमर्शकाः उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा
MBh 15.10.4
आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः सभाविहारभेत्तारो वर्णानां च प्रदूषकाः हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः
MBh 15.10.5
प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः
MBh 15.10.6
पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् दूतानां च चराणां च प्रदोषस्ते सदा भवेत्
MBh 15.10.7
सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्
MBh 15.10.8
सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः
MBh 15.10.9
कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा द्विविधस्य महाराज विपरीतं विवर्जयेः
MBh 15.10.10
चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम्
MBh 15.10.11
कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः
MBh 15.10.12
सेनाप्रणेता च भवेत्तव तात दृढव्रतः शूरः क्लेशसहश्चैव प्रियश्च तव मानवः
MBh 15.10.13
सर्वे जानपदाश्चैव तव कर्माणि पाण्डव पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः
MBh 15.10.14
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर
MBh 15.10.15
देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया
MBh 15.10.16
गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 16 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.10local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷