🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 11

The Book of Hermitage Residence · Parva 15 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 15.11.1
धृतराष्ट्र उवाच मण्डलानि च बुध्येथाः परेषामात्मनस्तथा उदासीनगुणानां च मध्यमानां तथैव च
MBh 15.11.2
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन
MBh 15.11.3
तथामात्या जनपदा दुर्गाणि विषमाणि च बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम्
MBh 15.11.4
ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो
MBh 15.11.5
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत्
MBh 15.11.6
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः
MBh 15.11.7
यदा स्वपक्षो बलवान्परपक्षस्तथाबलः विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा यदा स्वपक्षोऽबलवांस्तदा संधिं समाश्रयेत्
MBh 15.11.8
द्रव्याणां संचयश्चैव कर्तव्यः स्यान्महांस्तथा यदा समर्थो यानाय नचिरेणैव भारत
MBh 15.11.9
तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत् भूमिरल्पफला देया विपरीतस्य भारत
MBh 15.11.10
हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत् विपरीतान्न गृह्णीयात्स्वयं संधिविशारदः
MBh 15.11.11
संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ विपरीतस्तु तेऽदेयः पुत्र कस्यांचिदापदि तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्
MBh 15.11.12
प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् क्रमेण युगपद्द्वंद्वं व्यसनानां बलाबलम्
MBh 15.11.13
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम्
MBh 15.11.14
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता कौन्तेय तं न हिंसेत यो महीं विजिगीषते
MBh 15.11.15
गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः साधुसंग्रहणाच्चैव पापनिग्रहणात्तथा
MBh 15.11.16
दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः
MBh 15.11.17
यद्येवमभियायाच्च दुर्बलं बलवान्नृपः सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत्
MBh 15.11.18
अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः
MBh 15.11.19
असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.11local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷