🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 12

The Book of Hermitage Residence · Parva 15 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 15.12.1
धृतराष्ट्र उवाच संधिविग्रहमप्यत्र पश्येथा राजसत्तम द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर
MBh 15.12.2
राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत्
MBh 15.12.3
पर्युपासनकाले तु विपरीतं विधीयते आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः
MBh 15.12.4
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम्
MBh 15.12.5
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः
MBh 15.12.6
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा
MBh 15.12.7
आददीत बलं राजा मौलं मित्रबलं तथा अटवीबलं भृतं चैव तथा श्रेणीबलं च यत्
MBh 15.12.8
तत्र मित्रबलं राजन्मौलेन न विशिष्यते श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः
MBh 15.12.9
तथा चारबलं चैव परस्परसमं नृप विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते
MBh 15.12.10
आपदश्चापि बोद्धव्या बहुरूपा नराधिप भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु
MBh 15.12.11
विकल्पा बहवो राजन्नापदां पाण्डुनन्दन सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा
MBh 15.12.12
यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परंतप संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा
MBh 15.12.13
तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः आहूतश्चाप्यथो यायादनृतावपि पार्थिवः
MBh 15.12.14
स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम् पदातिनागैर्बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात्
MBh 15.12.15
अथोपपत्त्या शकटं पद्मं वज्रं च भारत उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो
MBh 15.12.16
सादयित्वा परबलं कृत्वा च बलहर्षणम् स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च
MBh 15.12.17
लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत्
MBh 15.12.18
सर्वथैव महाराज शरीरं धारयेदिह प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम्
MBh 15.12.19
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन्
MBh 15.12.20
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च
MBh 15.12.21
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम
MBh 15.12.22
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि
MBh 15.12.23
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.12local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷