🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 13

The Book of Hermitage Residence · Parva 15 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 15.13.1
युधिष्ठिर उवाच एवमेतत्करिष्यामि यथात्थ पृथिवीपते भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ
MBh 15.13.2
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति
MBh 15.13.3
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः कर्तास्म्येतन्महीपाल निर्वृतो भव भारत
MBh 15.13.4
वैशंपायन उवाच एवमुक्तः स राजर्षिर्धर्मराजेन धीमता कौन्तेयं समनुज्ञातुमियेष भरतर्षभ
MBh 15.13.5
पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा
MBh 15.13.6
तमासनगतं देवी गान्धारी धर्मचारिणी उवाच काले कालज्ञा प्रजापतिसमं पतिम्
MBh 15.13.7
अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि
MBh 15.13.8
धृतराष्ट्र उवाच गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम्
MBh 15.13.9
अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि
MBh 15.13.10
वैशंपायन उवाच इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः स च तद्वचनात्सर्वं समानिन्ये महीपतिः
MBh 15.13.11
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा समवेतांश्च तान्सर्वान्पौरजानपदानथ
MBh 15.13.12
ब्राह्मणांश्च महीपालान्नानादेशसमागतान् ततः प्राह महातेजा धृतराष्ट्रो महीपतिः
MBh 15.13.13
शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः
MBh 15.13.14
भवन्तः कुरवश्चैव बहुकालं सहोषिताः परस्परस्य सुहृदः परस्परहिते रताः
MBh 15.13.15
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते तथा भवद्भिः कर्तव्यमविचार्य वचो मम
MBh 15.13.16
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा
MBh 15.13.17
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम
MBh 15.13.18
श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः
MBh 15.13.19
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः
MBh 15.13.20
मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ
MBh 15.13.21
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ
MBh 15.13.22
तानविब्रुवतः किंचिद्दुःखशोकपरायणान् पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.13local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷