🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 46

The Book of Hermitage Residence · Parva 15 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 15.46.1
युधिष्ठिर उवाच तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु
MBh 15.46.2
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना
MBh 15.46.3
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः नागायुतबलो राजा स दग्धो हि दवाग्निना
MBh 15.46.4
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्
MBh 15.46.5
सूतमागधसंघैश्च शयानो यः प्रबोध्यते धरण्यां स नृपः शेते पापस्य मम कर्मभिः
MBh 15.46.6
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्
MBh 15.46.7
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत्
MBh 15.46.8
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्
MBh 15.46.9
सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम यत्समुत्सृज्य राज्यं सा वनवासमरोचयत्
MBh 15.46.10
युधिष्ठिरस्य जननी भीमस्य विजयस्य च अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन्
MBh 15.46.11
वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना उपकारमजानन्स कृतघ्न इति मे मतिः
MBh 15.46.12
यत्रादहत्स भगवान्मातरं सव्यसाचिनः कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम्
MBh 15.46.13
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे वृथाग्निना समायोगो यदभूत्पृथिवीपतेः
MBh 15.46.14
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्
MBh 15.46.15
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम
MBh 15.46.16
मन्ये पृथा वेपमाना कृशा धमनिसंतता हा तात धर्मराजेति समाक्रन्दन्महाभये
MBh 15.46.17
भीम पर्याप्नुहि भयादिति चैवाभिवाशती समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना
MBh 15.46.18
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु न चैनां मोक्षयामास वीरो माद्रवतीसुतः
MBh 15.46.19
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये
MBh 15.46.20
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.46local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷