🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 47

The Book of Hermitage Residence · Parva 15 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 15.47.1
नारद उवाच नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत
MBh 15.47.2
वनं प्रविशता तेन वायुभक्षेण धीमता अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम्
MBh 15.47.3
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम
MBh 15.47.4
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल तेन तद्वनमादीप्तमिति मे तापसाब्रुवन्
MBh 15.47.5
स राजा जाह्नवीकच्छे यथा ते कथितं मया तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ
MBh 15.47.6
एवमावेदयामासुर्मुनयस्ते ममानघ ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर
MBh 15.47.7
एवं स्वेनाग्निना राजा समायुक्तो महीपते मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्
MBh 15.47.8
गुरुशुश्रूषया चैव जननी तव पाण्डव प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः
MBh 15.47.9
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम्
MBh 15.47.10
वैशंपायन उवाच ततः स पृथिवीपालः पाण्डवानां धुरंधरः निर्ययौ सह सोदर्यैः सदारो भरतर्षभ
MBh 15.47.11
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः
MBh 15.47.12
ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने
MBh 15.47.13
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः
MBh 15.47.14
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः
MBh 15.47.15
तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः
MBh 15.47.16
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः
MBh 15.47.17
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः
MBh 15.47.18
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् संकीर्त्य नामनी राजा ददौ दानमनुत्तमम्
MBh 15.47.19
यो यदिच्छति यावच्च तावत्स लभते द्विजः शयनं भोजनं यानं मणिरत्नमथो धनम्
MBh 15.47.20
यानमाच्छादनं भोगान्दासीश्च परिचारिकाः ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः
MBh 15.47.21
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम्
MBh 15.47.22
ते चापि राजवचनात्पुरुषा ये गताभवन् संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः
MBh 15.47.23
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः
MBh 15.47.24
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम्
MBh 15.47.25
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः वनवासे तदा त्रीणि नगरे दश पञ्च च
MBh 15.47.26
हतपुत्रस्य संग्रामे दानानि ददतः सदा ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च
MBh 15.47.27
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा धारयामास तद्राज्यं निहतज्ञातिबान्धवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.47local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷