🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 45

The Book of Hermitage Residence · Parva 15 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 15.45.1
वैशंपायन उवाच द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्
MBh 15.45.2
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः आसीनं परिविश्वस्तं प्रोवाच वदतां वरः
MBh 15.45.3
चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्
MBh 15.45.4
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः
MBh 15.45.5
नारद उवाच चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप
MBh 15.45.6
युधिष्ठिर उवाच वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः धृतराष्ट्रं महात्मानमास्थितं परमं तपः
MBh 15.45.7
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः गान्धारी च पृथा चैव सूतपुत्रश्च संजयः
MBh 15.45.8
कथं च वर्तते चाद्य पिता मम स पार्थिवः श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः
MBh 15.45.9
नारद उवाच स्थिरीभूय महाराज शृणु सर्वं यथातथम् यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने
MBh 15.45.10
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप
MBh 15.45.11
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः संजयेन च सूतेन साग्निहोत्रः सयाजकः
MBh 15.45.12
आतस्थे स तपस्तीव्रं पिता तव तपोधनः वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः
MBh 15.45.13
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः
MBh 15.45.14
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी संजयः षष्ठभक्तेन वर्तयामास भारत
MBh 15.45.15
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह
MBh 15.45.16
अनिकेतोऽथ राजा स बभूव वनगोचरः ते चापि सहिते देव्यौ संजयश्च तमन्वयुः
MBh 15.45.17
संजयो नृपतेर्नेता समेषु विषमेषु च गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता
MBh 15.45.18
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्
MBh 15.45.19
अथ वायुः समुद्भूतो दावाग्निरभवन्महान् ददाह तद्वनं सर्वं परिगृह्य समन्ततः
MBh 15.45.20
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः वराहाणां च यूथेषु संश्रयत्सु जलाशयान्
MBh 15.45.21
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे निराहारतया राजा मन्दप्राणविचेष्टितः असमर्थोऽपसरणे सुकृशौ मातरौ च ते
MBh 15.45.22
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् इदमाह ततः सूतं संजयं पृथिवीपते
MBh 15.45.23
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित् वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्
MBh 15.45.24
तमुवाच किलोद्विग्नः संजयो वदतां वरः राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना
MBh 15.45.25
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति
MBh 15.45.26
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्
MBh 15.45.27
जलमग्निस्तथा वायुरथ वापि विकर्शनम् तापसानां प्रशस्यन्ते गच्छ संजय माचिरम्
MBh 15.45.28
इत्युक्त्वा संजयं राजा समाधाय मनस्तदा प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा
MBh 15.45.29
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो
MBh 15.45.30
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा
MBh 15.45.31
गान्धारी च महाभागा जननी च पृथा तव दावाग्निना समायुक्ते स च राजा पिता तव
MBh 15.45.32
संजयस्तु महामात्रस्तस्माद्दावादमुच्यत गङ्गाकूले मया दृष्टस्तापसैः परिवारितः
MBh 15.45.33
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः प्रययौ संजयः सूतो हिमवन्तं महीधरम्
MBh 15.45.34
एवं स निधनं प्राप्तः कुरुराजो महामनाः गान्धारी च पृथा चैव जनन्यौ ते नराधिप
MBh 15.45.35
यदृच्छयानुव्रजता मया राज्ञः कलेवरम् तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ
MBh 15.45.36
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते
MBh 15.45.37
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव
MBh 15.45.38
न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः प्राप्तवानग्निसंयोगं गान्धारी जननी च ते
MBh 15.45.39
वैशंपायन उवाच एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्
MBh 15.45.40
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम्
MBh 15.45.41
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते
MBh 15.45.42
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्
MBh 15.45.43
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्
MBh 15.45.44
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.45local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷