🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 44

The Book of Hermitage Residence · Parva 15 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 15.44.1
जनमेजय उवाच दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः
MBh 15.44.2
वैशंपायन उवाच तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः वीतशोकः स राजर्षिः पुनराश्रममागमत्
MBh 15.44.3
इतरस्तु जनः सर्वस्ते चैव परमर्षयः प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया
MBh 15.44.4
पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः अनुजग्मुर्महात्मानं सदारं तं महीपतिम्
MBh 15.44.5
तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत
MBh 15.44.6
धृतराष्ट्र महाबाहो शृणु कौरवनन्दन श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम्
MBh 15.44.7
ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् धर्मज्ञानां पुराणानां वदतां विविधाः कथाः
MBh 15.44.8
मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्
MBh 15.44.9
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः
MBh 15.44.10
युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः
MBh 15.44.11
विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् मासः समधिको ह्येषामतीतो वसतां वने
MBh 15.44.12
एतद्धि नित्यं यत्नेन पदं रक्ष्यं परंतप बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप
MBh 15.44.13
इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्
MBh 15.44.14
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते
MBh 15.44.15
रमे चाहं त्वया पुत्र पुरेव गजसाह्वये नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना
MBh 15.44.16
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम्
MBh 15.44.17
भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः
MBh 15.44.18
मातरौ ते तथैवेमे शीर्णपर्णकृताशने मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः
MBh 15.44.19
दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः व्यासस्य तपसो वीर्याद्भवतश्च समागमात्
MBh 15.44.20
प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि
MBh 15.44.21
त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम्
MBh 15.44.22
राजनीतिः सुबहुशः श्रुता ते भरतर्षभ संदेष्टव्यं न पश्यामि कृतमेतावता विभो
MBh 15.44.23
इत्युक्तवचनं तात नृपो राजानमब्रवीत् न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्
MBh 15.44.24
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा भवन्तमहमन्विष्ये मातरौ च यतव्रते
MBh 15.44.25
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे
MBh 15.44.26
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः
MBh 15.44.27
इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः
MBh 15.44.28
विसर्जयति मां राजा गान्धारी च यशस्विनी भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः
MBh 15.44.29
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि तपसो हि परं नास्ति तपसा विन्दते महत्
MBh 15.44.30
ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा तपस्येवानुरक्तं मे मनः सर्वात्मना तथा
MBh 15.44.31
शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे बान्धवा नः परिक्षीणा बलं नो न यथा पुरा
MBh 15.44.32
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः न तेषां कुलकर्तारं कंचित्पश्याम्यहं शुभे
MBh 15.44.33
सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे अवशेषास्तु निहता द्रोणपुत्रेण वै निशि
MBh 15.44.34
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम्
MBh 15.44.35
शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः
MBh 15.44.36
एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः
MBh 15.44.37
नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने
MBh 15.44.38
इहैव शोषयिष्यामि तपसाहं कलेवरम् पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः
MBh 15.44.39
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम
MBh 15.44.40
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः उपरोधो भवेदेवमस्माकं तपसः कृते
MBh 15.44.41
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो
MBh 15.44.42
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः
MBh 15.44.43
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन्
MBh 15.44.44
राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः
MBh 15.44.45
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम्
MBh 15.44.46
भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान्
MBh 15.44.47
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च
MBh 15.44.48
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे
MBh 15.44.49
पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः
MBh 15.44.50
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह
MBh 15.44.51
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि
MBh 15.44.52
ततो युधिष्ठिरो राजा सदारः सहसैनिकः नगरं हास्तिनपुरं पुनरायात्सबान्धवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.44local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷