🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 43

The Book of Hermitage Residence · Parva 15 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 15.43.1
वैशंपायन उवाच अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह
MBh 15.43.2
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च
MBh 15.43.3
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम्
MBh 15.43.4
जनमेजय उवाच ममापि वरदो व्यासो दर्शयेत्पितरं यदि तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते
MBh 15.43.5
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः प्रसादादृषिपुत्रस्य मम कामः समृध्यताम्
MBh 15.43.6
सूत उवाच इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् प्रसादमकरोद्धीमानानयच्च परिक्षितम्
MBh 15.43.7
ततस्तद्रूपवयसमागतं नृपतिं दिवः श्रीमन्तं पितरं राजा ददर्श जनमेजयः
MBh 15.43.8
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह
MBh 15.43.9
ततः सोऽवभृथे राजा मुदितो जनमेजयः पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः
MBh 15.43.10
स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् यायावरकुलोत्पन्नं जरत्कारुसुतं तदा
MBh 15.43.11
आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः
MBh 15.43.12
आस्तीक उवाच ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ
MBh 15.43.13
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः
MBh 15.43.14
कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः
MBh 15.43.15
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्
MBh 15.43.16
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः
MBh 15.43.17
सूत उवाच एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः पूजयामास तमृषिमनुमान्य पुनः पुनः
MBh 15.43.18
पप्रच्छ तमृषिं चापि वैशंपायनमच्युतम् कथावशेषं धर्मज्ञो वनवासस्य सत्तम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.43local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷