🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 42

The Book of Hermitage Residence · Parva 15 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 17 Shlokas

MBh 15.42.1
सूत उवाच एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः पितामहानां सर्वेषां गमनागमनं तदा
MBh 15.42.2
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्
MBh 15.42.3
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम्
MBh 15.42.4
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः कर्मजानि शरीराणि तथैवाकृतयो नृप
MBh 15.42.5
महाभूतानि नित्यानि भूताधिपतिसंश्रयात् तेषां च नित्यसंवासो न विनाशो वियुज्यताम्
MBh 15.42.6
अनाशाय कृतं कर्म तस्य चेष्टः फलागमः आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते
MBh 15.42.7
अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम्
MBh 15.42.8
यावन्न क्षीयते कर्म तावदस्य स्वरूपता संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति
MBh 15.42.9
नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्
MBh 15.42.10
अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः
MBh 15.42.11
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे
MBh 15.42.12
सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव यदा समन्विता देवाः पशूनां गमनेश्वराः गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते
MBh 15.42.13
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः अस्य नानासमायोगं यः पश्यति वृथामतिः वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः
MBh 15.42.14
वियोगे दोषदर्शी यः संयोगमिह वर्जयेत् असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम्
MBh 15.42.15
परापरज्ञस्तु नरो नाभिमानादुदीरितः अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते
MBh 15.42.16
अदर्शनादापतितः पुनश्चादर्शनं गतः नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता
MBh 15.42.17
येन येन शरीरेण करोत्ययमनीश्वरः तेन तेन शरीरेण तदवश्यमुपाश्नुते मानसं मनसाप्नोति शारीरं च शरीरवान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 17 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.42local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷