🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 26

The Book of Hermitage Residence · Parva 15 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 15.26.1
वैशंपायन उवाच ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः नारदः पर्वतश्चैव देवलश्च महातपाः
MBh 15.26.2
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः
MBh 15.26.3
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया
MBh 15.26.4
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्
MBh 15.26.5
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्
MBh 15.26.6
पुरा प्रजापतिसमो राजासीदकुतोभयः सहस्रचित्य इत्युक्तः शतयूपपितामहः
MBh 15.26.7
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः
MBh 15.26.8
स गत्वा तपसः पारं दीप्तस्य स नराधिपः पुरंदरस्य संस्थानं प्रतिपेदे महामनाः
MBh 15.26.9
दृष्टपूर्वः स बहुशो राजन्संपतता मया महेन्द्रसदने राजा तपसा दग्धकिल्बिषः
MBh 15.26.10
तथा शैलालयो राजा भगदत्तपितामहः तपोबलेनैव नृपो महेन्द्रसदनं गतः
MBh 15.26.11
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः स चापि तपसा लेभे नाकपृष्ठमितो नृपः
MBh 15.26.12
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्
MBh 15.26.13
भार्या समभवद्यस्य नर्मदा सरितां वरा सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः
MBh 15.26.14
शशलोमा च नामासीद्राजा परमधार्मिकः स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान्
MBh 15.26.15
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि
MBh 15.26.16
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम्
MBh 15.26.17
पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति
MBh 15.26.18
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव
MBh 15.26.19
युधिष्ठिरस्य जननी स हि धर्मः सनातनः वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा
MBh 15.26.20
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति
MBh 15.26.21
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय
MBh 15.26.22
तथा सर्वे नारदं विप्रसंघाः; संपूजयामासुरतीव राजन् राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.26local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷