🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 27

The Book of Hermitage Residence · Parva 15 · 16 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 16 Shlokas

MBh 15.27.1
वैशंपायन उवाच नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्
MBh 15.27.2
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता सर्वस्य च जनस्यास्य मम चैव महाद्युते
MBh 15.27.3
अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित
MBh 15.27.4
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम्
MBh 15.27.5
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने
MBh 15.27.6
स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः
MBh 15.27.7
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् व्याजहार सतां मध्ये दिव्यदर्शी महातपाः
MBh 15.27.8
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्
MBh 15.27.9
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप तपसो दुश्चरस्यास्य यदयं तप्यते नृपः
MBh 15.27.10
तत्राहमिदमश्रौषं शक्रस्य वदतो नृप वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः
MBh 15.27.11
ततः कुबेरभवनं गान्धारीसहितो नृपः विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः
MBh 15.27.12
कामगेन विमानेन दिव्याभरणभूषितः ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः
MBh 15.27.13
संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि
MBh 15.27.14
देवगुह्यमिदं प्रीत्या मया वः कथितं महत् भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः
MBh 15.27.15
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः
MBh 15.27.16
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 16 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.27local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷