🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 2

The Book of Hermitage Residence · Parva 15 · 13 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 13 Shlokas

MBh 15.2.1
[वै] एवं संपूजितॊ राजा पाण्डवैर अम्बिका सुतः विजहार यथापूर्वम ऋषिभिः पर्युपासितः
MBh 15.2.2
बरह्म देयाग्र हारांश च परददौ स कुरूद्वहः तच च कुन्तीसुतॊ राजा सर्वम एवान्वमॊदत
MBh 15.2.3
आनृशंस्य परॊ राजा परीयमाणॊ युधिष्ठिरः उवाच स तदा भरातॄन अमात्यांश च महीपतिः
MBh 15.2.4
मया चैव भवद्भिश च मान्य एष नराधिपः निदेशे धृतराष्ट्रस्य यः सथास्यति स मे सुहृत विपरीतश च मे शत्रुर निरस्यश च भवेन नरः
MBh 15.2.5
परिदृष्टेषु चाहःसु पुत्राणां शराद्धकर्मणि ददातु राजा सर्वेषां यावद अस्य चिकीर्षितम
MBh 15.2.6
ततः स राजा कौरव्यॊ धृतराष्ट्रॊ महामनाः बराह्मणेभ्यॊ महार्हेभ्यॊ ददौ वित्तान्य अनेकशः
MBh 15.2.7
धर्मराजश च भीमश च सव्यसाची यमाव अपि तत सर्वम अन्ववर्तन्त धृतराष्ट्र वयपेक्षया
MBh 15.2.8
कथं नु राजा वृद्धः सन पुत्रशॊकसमाहतः शॊकम अस्मत कृतं पराप्य न मरियेतेति चिन्त्यते
MBh 15.2.9
यावद धि कुरुमुख्यस्य जीवत पुत्रस्य वै सुखम बभूव तद अवाप्नॊतु भॊगांश चेति वयवस्थिताः
MBh 15.2.10
ततस ते सहिताः सर्वे भरातरः पञ्च पाण्डवाः तथा शीलाः समातस्थुर धृतराष्ट्रस्य शासने
MBh 15.2.11
धृतराष्ट्रश च तान वीरान विनीतान विनये सथितान शिष्यवृत्तौ सथितान नित्यं गुरुवत पर्यपश्यत
MBh 15.2.12
गान्धारी चैव पुत्राणां विविधैः शराद्धकर्मभिः आनृष्यम अगमत कामान विप्रेभ्यः परतिपाद्य वै
MBh 15.2.13
एवं धर्मभृतां शरेष्ठॊ धर्मराजॊ युधिष्ठिरः भरातृभिः सहितॊ धीमान पूजयाम आस तं नृपम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷