🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 1

The Book of Hermitage Residence · Parva 15 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 15.1.1
जनमेजय उवाच प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः कथमासन्महाराजे धृतराष्ट्रे महात्मनि
MBh 15.1.2
स हि राजा हतामात्यो हतपुत्रो निराश्रयः कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी
MBh 15.1.3
कियन्तं चैव कालं ते पितरो मम पूर्वकाः स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि
MBh 15.1.4
वैशंपायन उवाच प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्
MBh 15.1.5
धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः
MBh 15.1.6
पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च
MBh 15.1.7
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे
MBh 15.1.8
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि
MBh 15.1.9
शयनानि महार्हाणि वासांस्याभरणानि च राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्
MBh 15.1.10
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम्
MBh 15.1.11
स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् स च तस्मिन्महेष्वासः कृपः समभवत्तदा
MBh 15.1.12
व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम्
MBh 15.1.13
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्
MBh 15.1.14
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै
MBh 15.1.15
अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत्
MBh 15.1.16
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः सर्वान्कामान्महातेजाः प्रददावम्बिकासुते
MBh 15.1.17
आरालिकाः सूपकारा रागखाण्डविकास्तथा उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा
MBh 15.1.18
वासांसि च महार्हाणि माल्यानि विविधानि च उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः
MBh 15.1.19
मैरेयं मधु मांसानि पानकानि लघूनि च चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा
MBh 15.1.20
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा
MBh 15.1.21
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी उलूपी नागकन्या च देवी चित्राङ्गदा तथा
MBh 15.1.22
धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा
MBh 15.1.23
यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात् इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः
MBh 15.1.24
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् सविशेषमवर्तन्त भीममेकं विना तदा
MBh 15.1.25
न हि तत्तस्य वीरस्य हृदयादपसर्पति धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.1local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷