🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 3

The Book of Hermitage Residence · Parva 15 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 17 Shlokas

MBh 15.3.1
वैशंपायन उवाच स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने
MBh 15.3.2
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः
MBh 15.3.3
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव
MBh 15.3.4
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह वैचित्रवीर्ये नृपतौ समाचरति नित्यदा
MBh 15.3.5
यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी
MBh 15.3.6
तत्स राजा महाराज पाण्डवानां धुरंधरः पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा
MBh 15.3.7
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम्
MBh 15.3.8
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्
MBh 15.3.9
ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः
MBh 15.3.10
न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः
MBh 15.3.11
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा
MBh 15.3.12
यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम् अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत
MBh 15.3.13
यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः
MBh 15.3.14
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः
MBh 15.3.15
धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्
MBh 15.3.16
अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः
MBh 15.3.17
राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 17 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.3local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷