🪷 Mahābhārata · Anuśāsana-Parva · Chapter 95
The Book of the Final Teaching · Parva 13 · 86 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 86 Shlokas
MBh 13.95.1
भीष्म उवाच
अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः
व्यचरन्भक्षयन्तो वै मूलानि च फलानि च
MBh 13.95.2
अथापश्यन्सुपीनांसपाणिपादमुखोदरम्
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम्
MBh 13.95.3
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन्
MBh 13.95.4
वसिष्ठ उवाच
नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम्
सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः
MBh 13.95.5
अत्रिरुवाच
नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम्
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः
MBh 13.95.6
विश्वामित्र उवाच
नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः
MBh 13.95.7
जमदग्निरुवाच
नैतस्येह यथास्माकं भक्तमिन्धनमेव च
संचिन्त्य वार्षिकं किंचित्तेन पीवाञ्शुनःसखः
MBh 13.95.8
कश्यप उवाच
नैतस्येह यथास्माकं चत्वारश्च सहोदराः
देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः
MBh 13.95.9
भरद्वाज उवाच
नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः
शोको भार्यापवादेन तेन पीवाञ्शुनःसखः
MBh 13.95.10
गौतम उवाच
नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम्
एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः
MBh 13.95.11
भीष्म उवाच
अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः
अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत्
MBh 13.95.12
परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम्
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते
MBh 13.95.13
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते
आददानाः समुद्धृत्य मूलानि च फलानि च
MBh 13.95.14
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्
शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम्
MBh 13.95.15
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्
वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम्
MBh 13.95.16
नानाविधैश्च विहगैर्जलप्रकरसेविभिः
एकद्वारामनादेयां सूपतीर्थामकर्दमाम्
MBh 13.95.17
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना
यातुधानीति विख्याता पद्मिनीं तामरक्षत
MBh 13.95.18
शुनःसखसहायास्तु बिसार्थं ते महर्षयः
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम्
MBh 13.95.19
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः
MBh 13.95.20
एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम्
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि
MBh 13.95.21
यातुधान्युवाच
यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन
आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः
MBh 13.95.22
ऋषय ऊचुः
सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः
भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत
MBh 13.95.23
यातुधान्युवाच
समयेन बिसानीतो गृह्णीध्वं कामकारतः
एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम्
MBh 13.95.24
भीष्म उवाच
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्
MBh 13.95.25
अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने
MBh 13.95.26
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्
MBh 13.95.27
वसिष्ठ उवाच
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि
वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्
MBh 13.95.28
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.29
कश्यप उवाच
कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः
काश्यः काशनिकाशत्वादेतन्मे नाम धारय
MBh 13.95.30
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्
MBh 13.95.31
भरद्वाज उवाच
भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान्
भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने
MBh 13.95.32
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.33
गौतम उवाच
गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते
विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे
MBh 13.95.34
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.35
विश्वामित्र उवाच
विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा
विश्वामित्रमिति ख्यातं यातुधानि निबोध मे
MBh 13.95.36
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.37
जमदग्निरुवाच
जाजमद्यजजा नाम मृजा माह जिजायिषे
जमदग्निरिति ख्यातमतो मां विद्धि शोभने
MBh 13.95.38
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.39
अरुन्धत्युवाच
धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्
MBh 13.95.40
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.41
गण्डोवाच
गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता
गण्डगण्डेव गण्डेति विद्धि मानलसंभवे
MBh 13.95.42
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.43
पशुसख उवाच
सखा सखे यः सख्येयः पशूनां च सखा सदा
गौणं पशुसखेत्येवं विद्धि मामग्निसंभवे
MBh 13.95.44
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्
MBh 13.95.45
शुनःसख उवाच
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे
शुनःसखसखायं मां यातुधान्युपधारय
MBh 13.95.46
यातुधान्युवाच
नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा
तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज
MBh 13.95.47
शुनःसख उवाच
सकृदुक्तं मया नाम न गृहीतं यदा त्वया
तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम्
MBh 13.95.48
भीष्म उवाच
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा
कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह
MBh 13.95.49
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम्
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत्
MBh 13.95.50
ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च
यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः
MBh 13.95.51
श्रमेण महता युक्तास्ते बिसानि कलापशः
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा
MBh 13.95.52
अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन्
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ
MBh 13.95.53
ऋषय ऊचुः
केन क्षुधाभिभूतानामस्माकं पापकर्मणा
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम्
MBh 13.95.54
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः
त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन
MBh 13.95.55
त उक्त्वा बाढमित्येव सर्व एव शुनःसखम्
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः
MBh 13.95.56
अत्रिरुवाच
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु
अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः
MBh 13.95.57
वसिष्ठ उवाच
अनध्यायपरो लोके शुनः स परिकर्षतु
परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः
MBh 13.95.58
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु
अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः
MBh 13.95.59
कश्यप उवाच
सर्वत्र सर्वं पणतु न्यासलोपं करोतु च
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः
MBh 13.95.60
वृथामांसं समश्नातु वृथादानं करोतु च
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः
MBh 13.95.61
भरद्वाज उवाच
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः
MBh 13.95.62
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः
MBh 13.95.63
जमदग्निरुवाच
पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम्
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः
MBh 13.95.64
द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान्
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः
MBh 13.95.65
गौतम उवाच
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु
विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः
MBh 13.95.66
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः
MBh 13.95.67
विश्वामित्र उवाच
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः
अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः
MBh 13.95.68
अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः
कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः
MBh 13.95.69
वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः
अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः
MBh 13.95.70
अरुन्धत्युवाच
नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः
एका स्वादु समश्नातु बिसस्तैन्यं करोति या
MBh 13.95.71
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये
अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या
MBh 13.95.72
गण्डोवाच
अनृतं भाषतु सदा साधुभिश्च विरुध्यतु
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या
MBh 13.95.73
साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या
MBh 13.95.74
पशुसख उवाच
दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनः
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः
MBh 13.95.75
शुनःसख उवाच
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये
आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि
MBh 13.95.76
ऋषय ऊचुः
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख
MBh 13.95.77
शुनःसख उवाच
न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः
सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया
MBh 13.95.78
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत
परीक्षार्थं भगवतां कृतमेतन्मयानघाः
रक्षणार्थं च सर्वेषां भवतामहमागतः
MBh 13.95.79
यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः
MBh 13.95.80
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवा
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत
MBh 13.95.81
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः
MBh 13.95.82
भीष्म उवाच
ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम्
MBh 13.95.83
एवमेते महात्मानो भोगैर्बहुविधैरपि
क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन्
MBh 13.95.84
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत्
एष धर्मः परो राजन्नलोभ इति विश्रुतः
MBh 13.95.85
इदं नरः सच्चरितं समवायेषु कीर्तयेत्
सुखभागी च भवति न च दुर्गाण्यवाप्नुते
MBh 13.95.86
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा
यशोधर्मार्थभागी च भवति प्रेत्य मानवः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 94
- Next chapter · Anuśāsana-Parva Ch 96 →
Sources and Connected Readings
Continue from these 86 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.95local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷