🪷 Mahābhārata · Anuśāsana-Parva · Chapter 96
The Book of the Final Teaching · Parva 13 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 54 Shlokas
MBh 13.96.1
भीष्म उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु
MBh 13.96.2
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः
MBh 13.96.3
ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्त
चराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे
MBh 13.96.4
शुक्रोऽङ्गिराश्चैव कविश्च विद्वां;स्तथागस्त्यो नारदपर्वतौ च
भृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन्
MBh 13.96.5
ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याः
शिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः
MBh 13.96.6
जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र
तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम्
MBh 13.96.7
सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम्
देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः
MBh 13.96.8
केचिद्बिसान्यखनंस्तत्र राज;न्नन्ये मृणालान्यखनंस्तत्र विप्राः
अथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै
MBh 13.96.9
तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम्
युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम्
MBh 13.96.10
शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा
पुराधर्मो वर्धते नेह याव;त्तावद्गच्छामि परलोकं चिराय
MBh 13.96.11
पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्ति
पुरा राजा व्यवहारानधर्म्या;न्पश्यत्यहं परलोकं व्रजामि
MBh 13.96.12
पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वे
तमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय
MBh 13.96.13
पुरा प्रपश्यामि परेण मर्त्या;न्बलीयसा दुर्बलान्भुज्यमानान्
तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके
MBh 13.96.14
तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः
मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे
MBh 13.96.15
ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्र
ततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः
MBh 13.96.16
भृगुरुवाच
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम्
MBh 13.96.17
वसिष्ठ उवाच
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम्
MBh 13.96.18
कश्यप उवाच
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम्
MBh 13.96.19
गौतम उवाच
जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन सः
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम्
MBh 13.96.20
अङ्गिरा उवाच
अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु
ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम्
MBh 13.96.21
धुन्धुमार उवाच
अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु
एकः संपन्नमश्नातु यस्ते हरति पुष्करम्
MBh 13.96.22
पूरुरुवाच
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम्
MBh 13.96.23
दिलीप उवाच
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम्
MBh 13.96.24
शुक्र उवाच
पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम्
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम्
MBh 13.96.25
जमदग्निरुवाच
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम्
MBh 13.96.26
शिबिरुवाच
अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च
तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम्
MBh 13.96.27
ययातिरुवाच
अनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतु
निराकरोतु वेदांश्च यस्ते हरति पुष्करम्
MBh 13.96.28
नहुष उवाच
अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम्
MBh 13.96.29
अम्बरीष उवाच
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च
ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम्
MBh 13.96.30
नारद उवाच
गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम्
गरीयसोऽवजानातु यस्ते हरति पुष्करम्
MBh 13.96.31
नाभाग उवाच
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु
शुल्केन कन्यां ददतु यस्ते हरति पुष्करम्
MBh 13.96.32
कविरुवाच
पदा स गां ताडयतु सूर्यं च प्रति मेहतु
शरणागतं च त्यजतु यस्ते हरति पुष्करम्
MBh 13.96.33
विश्वामित्र उवाच
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम्
MBh 13.96.34
पर्वत उवाच
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम्
MBh 13.96.35
भरद्वाज उवाच
सर्वपापसमादानं नृशंसे चानृते च यत्
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम्
MBh 13.96.36
अष्टक उवाच
स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत्
अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम्
MBh 13.96.37
गालव उवाच
पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत्
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम्
MBh 13.96.38
अरुन्धत्युवाच
श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः
एका स्वादु समश्नातु या ते हरति पुष्करम्
MBh 13.96.39
वालखिल्या ऊचुः
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु
धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम्
MBh 13.96.40
पशुसख उवाच
अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः
परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम्
MBh 13.96.41
सुरभ्युवाच
बाल्वजेन निदानेन कांस्यं भवतु दोहनम्
दुह्येत परवत्सेन या ते हरति पुष्करम्
MBh 13.96.42
भीष्म उवाच
ततस्तु तैः शपथैः शप्यमानै;र्नानाविधैर्बहुभिः कौरवेन्द्र
सहस्राक्षो देवराट्संप्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम्
MBh 13.96.43
अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम्
ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन्
MBh 13.96.44
शक्र उवाच
अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये
आथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति
MBh 13.96.45
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम्
MBh 13.96.46
अगस्त्य उवाच
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन
दीयतां पुष्करं मह्यमेष धर्मः सनातनः
MBh 13.96.47
इन्द्र उवाच
न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै
धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि
MBh 13.96.48
धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः
MBh 13.96.49
तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित
MBh 13.96.50
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम्
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः
MBh 13.96.51
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः
पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते
MBh 13.96.52
आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः
MBh 13.96.53
न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात्
MBh 13.96.54
यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम्
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 95
- Next chapter · Anuśāsana-Parva Ch 97 →
Sources and Connected Readings
Continue from these 54 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.96local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷