🪷 Mahābhārata · Anuśāsana-Parva · Chapter 94
The Book of the Final Teaching · Parva 13 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 13.94.1
युधिष्ठिर उवाच
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च
दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह
MBh 13.94.2
भीष्म उवाच
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति
MBh 13.94.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत
MBh 13.94.4
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती
MBh 13.94.5
सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह
MBh 13.94.6
ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम्
समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम्
MBh 13.94.7
अथाभवदनावृष्टिर्महती कुरुनन्दन
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः
MBh 13.94.8
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल
MBh 13.94.9
तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो
ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे
MBh 13.94.10
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत
MBh 13.94.11
निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः
MBh 13.94.12
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह
MBh 13.94.13
वृषादर्भिरुवाच
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम्
मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः
MBh 13.94.14
प्रियो हि मे ब्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम्
एकैकशः सवृषाः संप्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः
MBh 13.94.15
कुलंभराननडुहः शतंशता;न्धुर्याञ्शुभान्सर्वशोऽहं ददानि
पृथ्वीवाहान्पीवरांश्चैव ताव;दग्र्या गृष्ट्यो धेनवः सुव्रताश्च
MBh 13.94.16
वरान्ग्रामान्व्रीहियवं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि
मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः
MBh 13.94.17
ऋषय ऊचुः
राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम्
MBh 13.94.18
क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम्
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः
MBh 13.94.19
अह्नापीह तपो जातु ब्राह्मणस्योपजायते
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः
MBh 13.94.20
कुशलं सह दानेन राजन्नस्तु सदा तव
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः
MBh 13.94.21
अपक्वमेव तन्मांसमभूत्तेषां च धीमताम्
अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः
MBh 13.94.22
ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः
प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः
MBh 13.94.23
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन्
MBh 13.94.24
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत्
न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः
MBh 13.94.25
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम्
अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना
MBh 13.94.26
वसिष्ठ उवाच
शतेन निष्कं गणितं सहस्रेण च संमितम्
यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम्
MBh 13.94.27
कश्यप उवाच
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत्
MBh 13.94.28
भरद्वाज उवाच
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते
MBh 13.94.29
गौतम उवाच
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्
समुद्रकल्पः पुरुषो न कदाचन पूर्यते
MBh 13.94.30
विश्वामित्र उवाच
कामं कामयमानस्य यदा कामः समृध्यते
अथैनमपरः कामस्तृष्णा विध्यति बाणवत्
MBh 13.94.31
जमदग्निरुवाच
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत्
MBh 13.94.32
अरुन्धत्युवाच
धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः
तपःसंचय एवेह विशिष्टो द्रव्यसंचयात्
MBh 13.94.33
गण्डोवाच
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः
बलीयांसो दुर्बलवद्बिभेम्यहमतः परम्
MBh 13.94.34
पशुसख उवाच
यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः
विनयार्थं सुविद्वांसमुपासेयं यथातथम्
MBh 13.94.35
ऋषय ऊचुः
कुशलं सह दानाय तस्मै यस्य प्रजा इमाः
फलान्युपधियुक्तानि य एवं नः प्रयच्छसि
MBh 13.94.36
भीष्म उवाच
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते
ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः
MBh 13.94.37
मन्त्रिणः ऊचुः
उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै
ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव
MBh 13.94.38
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह
तेषां संप्रतिकर्तुं च सर्वेषामगमद्गृहम्
MBh 13.94.39
स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः
जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः
MBh 13.94.40
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत्
MBh 13.94.41
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता
वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत्
MBh 13.94.42
वृषादर्भिरुवाच
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च
दासीभर्तुश्च दास्याश्च मनसा नाम धारय
MBh 13.94.43
ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय
विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव
MBh 13.94.44
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 93
- Next chapter · Anuśāsana-Parva Ch 95 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.94local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷