🪷 Mahābhārata · Anuśāsana-Parva · Chapter 91
The Book of the Final Teaching · Parva 13 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 45 Shlokas
MBh 13.91.1
युधिष्ठिर उवाच
केन संकल्पितं श्राद्धं कस्मिन्काले किमात्मकम्
भृग्वङ्गिरसके काले मुनिना कतरेण वा
MBh 13.91.2
कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च
धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह
MBh 13.91.3
भीष्म उवाच
यथा श्राद्धं संप्रवृत्तं यस्मिन्काले यदात्मकम्
येन संकल्पितं चैव तन्मे शृणु जनाधिप
MBh 13.91.4
स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः
MBh 13.91.5
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः
MBh 13.91.6
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः
कालधर्मपरीतात्मा निधनं समुपागतः
MBh 13.91.7
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा
संतापमगमत्तीव्रं पुत्रशोकपरायणः
MBh 13.91.8
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत
MBh 13.91.9
तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः
मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी
MBh 13.91.10
ततः संचिन्तयामास श्राद्धकल्पं समाहितः
यानि तस्यैव भोज्यानि मूलानि च फलानि च
MBh 13.91.11
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः
MBh 13.91.12
अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान्
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत्
MBh 13.91.13
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत्
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः
MBh 13.91.14
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते
MBh 13.91.15
कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन्
MBh 13.91.16
तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनः
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत्
MBh 13.91.17
अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम्
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति
MBh 13.91.18
ततः संचिन्तयामास वंशकर्तारमात्मनः
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः
MBh 13.91.19
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम्
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः
MBh 13.91.20
निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधनः
मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम्
MBh 13.91.21
सोऽयं स्वयंभुविहितो धर्मः संकल्पितस्त्वया
ऋते स्वयंभुवः कोऽन्यः श्राद्धेयं विधिमाहरेत्
MBh 13.91.22
आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम्
स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे
MBh 13.91.23
कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन
ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः
MBh 13.91.24
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः
तेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा
MBh 13.91.25
स्तोतव्या चेह पृथिवी निवापस्येह धारिणी
वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च
MBh 13.91.26
उदकानयने चैव स्तोतव्यो वरुणो विभुः
ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ
MBh 13.91.27
देवास्तु पितरो नाम निर्मिता वै स्वयंभुवा
ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः
MBh 13.91.28
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात्
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा
MBh 13.91.29
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्
MBh 13.91.30
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा
ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च
MBh 13.91.31
विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च
विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः
MBh 13.91.32
सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च
MBh 13.91.33
चमूहरः सुवेषश्च व्योमारिः शंकरो भवः
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्
MBh 13.91.34
गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च
MBh 13.91.35
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च
जितात्मा मुनिवीर्यश्च दीप्तलोमा भयंकरः
MBh 13.91.36
अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा
MBh 13.91.37
स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः
MBh 13.91.38
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा
हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा
MBh 13.91.39
पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः
कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च
MBh 13.91.40
ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत्
कृष्णाजाजी विडश्चैव शीतपाकी तथैव च
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च
MBh 13.91.41
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत्
MBh 13.91.42
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम्
पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः
MBh 13.91.43
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते
काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा
MBh 13.91.44
संकीर्णयोनिर्विप्रश्च संबन्धी पतितश्च यः
वर्जनीया बुधैरेते निवापे समुपस्थिते
MBh 13.91.45
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा
पितामहसभां दिव्यां जगामात्रिस्तपोधनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 90
- Next chapter · Anuśāsana-Parva Ch 92 →
Sources and Connected Readings
Continue from these 45 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.91local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷