🪷 Mahābhārata · Anuśāsana-Parva · Chapter 90
The Book of the Final Teaching · Parva 13 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 47 Shlokas
MBh 13.90.1
युधिष्ठिर उवाच
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि
MBh 13.90.2
भीष्म उवाच
ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित्
दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम्
MBh 13.90.3
देवताः पूजयन्तीह दैवेनैवेह तेजसा
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः
MBh 13.90.4
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः
कुलशीलवयोरूपैर्विद्ययाभिजनेन च
MBh 13.90.5
एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु
MBh 13.90.6
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी
MBh 13.90.7
अगारदाही गरदः कुण्डाशी सोमविक्रयी
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः
MBh 13.90.8
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति
MBh 13.90.9
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च
MBh 13.90.10
श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति
MBh 13.90.11
एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान्
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः
MBh 13.90.12
षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप
MBh 13.90.13
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम्
MBh 13.90.14
असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम्
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत्
MBh 13.90.15
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथंचन
तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत्
MBh 13.90.16
तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः
MBh 13.90.17
यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति
तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम्
MBh 13.90.18
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः
ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान्
MBh 13.90.19
वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि
पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः
MBh 13.90.20
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्
ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः
MBh 13.90.21
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत
MBh 13.90.22
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः
MBh 13.90.23
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः
मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः
MBh 13.90.24
अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत्
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः
MBh 13.90.25
इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः
यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः
MBh 13.90.26
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान्
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः
MBh 13.90.27
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः
MBh 13.90.28
उपपन्नो गुरुकुले सत्यवादी सहस्रदः
अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च
MBh 13.90.29
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते
MBh 13.90.30
क्रोशादर्धतृतीयात्तु पावयेदेक एव हि
ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः
MBh 13.90.31
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत्
ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम्
MBh 13.90.32
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः
MBh 13.90.33
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान्
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान्
MBh 13.90.34
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च
न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति
MBh 13.90.35
यश्च श्राद्धे कुरुते संगतानि; न देवयानेन पथा स याति
स वै मुक्तः पिप्पलं बन्धनाद्वा; स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः
MBh 13.90.36
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत; दद्यान्मित्रेभ्यः संग्रहार्थं धनानि
यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद्धव्यकव्ये
MBh 13.90.37
यथोषरे बीजमुप्तं न रोहे;न्न चास्योप्ता प्राप्नुयाद्बीजभागम्
एवं श्राद्धं भुक्तमनर्हमाणै;र्न चेह नामुत्र फलं ददाति
MBh 13.90.38
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते
MBh 13.90.39
संभोजनी नाम पिशाचदक्षिणा; सा नैव देवान्न पितॄनुपैति
इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौरिव नष्टवत्सा
MBh 13.90.40
यथाग्नौ शान्ते घृतमाजुहोति; तन्नैव देवान्न पितॄनुपैति
तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणामावृणोति
MBh 13.90.41
उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै
आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान्पातयेद्देवयानात्
MBh 13.90.42
ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः
MBh 13.90.43
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत
MBh 13.90.44
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत
तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः
MBh 13.90.45
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत्
ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम्
MBh 13.90.46
वैखानसानां वचनमृषीणां श्रूयते नृप
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान्
प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत्
MBh 13.90.47
यः सहस्रं सहस्राणां भोजयेदनृचां नरः
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 89
- Next chapter · Anuśāsana-Parva Ch 91 →
Sources and Connected Readings
Continue from these 47 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.90local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷