🪷 Mahābhārata · Anuśāsana-Parva · Chapter 86
The Book of the Final Teaching · Parva 13 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 34 Shlokas
MBh 13.86.1
युधिष्ठिर उवाच
उक्ताः पितामहेनेह सुवर्णस्य विधानतः
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः
MBh 13.86.2
यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम्
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे
MBh 13.86.3
उक्तः स देवतानां हि अवध्य इति पार्थिव
न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः
MBh 13.86.4
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे
MBh 13.86.5
भीष्म उवाच
विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै
MBh 13.86.6
न देवतानां काचिद्धि समर्था जातवेदसः
एकापि शक्ता तं गर्भं संधारयितुमोजसा
MBh 13.86.7
षण्णां तासां ततः प्रीतः पावको गर्भधारणात्
स्वेन तेजोविसर्गेण वीर्येण परमेण च
MBh 13.86.8
तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो
MBh 13.86.9
ततस्ता वर्धमानस्य कुमारस्य महात्मनः
तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे
MBh 13.86.10
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते
समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ
MBh 13.86.11
ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम्
पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः
MBh 13.86.12
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः
MBh 13.86.13
ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम्
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः
MBh 13.86.14
अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे
स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत्
MBh 13.86.15
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः
रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः
MBh 13.86.16
अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः
MBh 13.86.17
पृथग्भूतानि चान्यानि यानि देवार्पणानि वै
आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम्
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा
MBh 13.86.18
षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम्
पीनांसं द्वादशभुजं पावकादित्यवर्चसम्
MBh 13.86.19
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः
लेभिरे परमं हर्षं मेनिरे चासुरं हतम्
MBh 13.86.20
ततो देवाः प्रियाण्यस्य सर्व एव समाचरन्
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह
MBh 13.86.21
सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम्
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ
MBh 13.86.22
कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम्
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम्
MBh 13.86.23
गवां माता च गा देवी ददौ शतसहस्रशः
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु
MBh 13.86.24
सुधन्वा शकटं चैव रथं चामितकूबरम्
वरुणो वारुणान्दिव्यान्भुजंगान्प्रददौ शुभान्
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः
MBh 13.86.25
श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च
राक्षसासुरसंघाश्च येऽनुजग्मुस्तमीश्वरम्
MBh 13.86.26
वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम्
MBh 13.86.27
सेनापत्येन तं देवाः पूजयित्वा गुहालयम्
शशंसुर्विप्रकारं तं तस्मै तारककारितम्
MBh 13.86.28
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः
जघानामोघया शक्त्या दानवं तारकं गुहः
MBh 13.86.29
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः
MBh 13.86.30
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान्
ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च
MBh 13.86.31
हिरण्यमूर्तिर्भगवानेष एव च पावकिः
सदा कुमारो देवानां सेनापत्यमवाप्तवान्
MBh 13.86.32
तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम्
सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम्
MBh 13.86.33
एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप
MBh 13.86.34
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 85
- Next chapter · Anuśāsana-Parva Ch 87 →
Sources and Connected Readings
Continue from these 34 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.86local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷