🪷 Mahābhārata · Anuśāsana-Parva · Chapter 85
The Book of the Final Teaching · Parva 13 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 70 Shlokas
MBh 13.85.1
वसिष्ठ उवाच
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः
MBh 13.85.2
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो
MBh 13.85.3
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान्
MBh 13.85.4
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः
MBh 13.85.5
लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः
ओंकारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा
MBh 13.85.6
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः
जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो
MBh 13.85.7
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह
MBh 13.85.8
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः
स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि
MBh 13.85.9
तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्य भूमितः
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने
MBh 13.85.10
ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावके
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह
MBh 13.85.11
स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः
आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन
MBh 13.85.12
ततः संजनयामास भूतग्रामं स वीर्यवान्
ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम्
MBh 13.85.13
तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्
सगुणस्तेजसो नित्यं तमस्याकाशमेव च
MBh 13.85.14
सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो
MBh 13.85.15
पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत्
MBh 13.85.16
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः
MBh 13.85.17
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात्
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि
MBh 13.85.18
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः
वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ
MBh 13.85.19
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे
ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम्
MBh 13.85.20
एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः
ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात्
MBh 13.85.21
यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः
अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम्
MBh 13.85.22
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः
MBh 13.85.23
अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः
MBh 13.85.24
आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम्
सर्वकामदमित्याहुस्तत्र हव्यमुदावहत्
MBh 13.85.25
ततोऽब्रवीन्महादेवो वरुणः परमात्मकः
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह
MBh 13.85.26
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः
इति जानीत खगमा मम यज्ञफलं हि तत्
MBh 13.85.27
अग्निरुवाच
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च
ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः
MBh 13.85.28
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः
ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत्
MBh 13.85.29
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम्
MBh 13.85.30
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च
MBh 13.85.31
वयं च भगवन्सर्वे जगच्च सचराचरम्
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः
वरुणश्चेश्वरो देवो लभतां काममीप्सितम्
MBh 13.85.32
निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः
जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम्
MBh 13.85.33
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत्
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्
MBh 13.85.34
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत्
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः
भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ
MBh 13.85.35
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः
सर्वं संतानमेतेषामिदमित्युपधारय
MBh 13.85.36
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च
MBh 13.85.37
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि
MBh 13.85.38
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः
बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च
MBh 13.85.39
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः
एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः
MBh 13.85.40
ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः
MBh 13.85.41
कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित्
MBh 13.85.42
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम्
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः
MBh 13.85.43
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत्
MBh 13.85.44
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः
कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ
MBh 13.85.45
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः
तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः
MBh 13.85.46
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः
इमे नः संतरिष्यन्ति प्रजाभिर्जगदीश्वराः
MBh 13.85.47
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः
त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम्
MBh 13.85.48
तथैव वंशकर्तारस्तव तेजोविवर्धनाः
भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा
MBh 13.85.49
देवपक्षधराः सौम्याः प्राजापत्या महर्षयः
आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा
MBh 13.85.50
सर्वे हि वयमेते च तवैव प्रसवः प्रभो
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह
MBh 13.85.51
मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः
अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह
MBh 13.85.52
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा
MBh 13.85.53
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम्
MBh 13.85.54
अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा
MBh 13.85.55
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्
जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात्
MBh 13.85.56
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम्
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते
MBh 13.85.57
तस्मादग्निपराः सर्वा देवता इति शुश्रुम
ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम्
MBh 13.85.58
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम्
MBh 13.85.59
तस्य चातमसो लोका गच्छतः परमां गतिम्
स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव
MBh 13.85.60
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम्
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः
MBh 13.85.61
ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम्
MBh 13.85.62
ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः
MBh 13.85.63
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम्
इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते
MBh 13.85.64
ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः सदा
अनावृतगतिश्चैव कामचारी भवत्युत
MBh 13.85.65
न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत्
सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान्
MBh 13.85.66
यस्तु संजनयित्वाग्निमादित्योदयनं प्रति
दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते
MBh 13.85.67
अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम्
यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम्
MBh 13.85.68
भीष्म उवाच
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात्
MBh 13.85.69
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते
प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम्
MBh 13.85.70
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 84
- Next chapter · Anuśāsana-Parva Ch 86 →
Sources and Connected Readings
Continue from these 70 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.85local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷