🪷 Mahābhārata · Anuśāsana-Parva · Chapter 84
The Book of the Final Teaching · Parva 13 · 81 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 81 Shlokas
MBh 13.84.1
देवा ऊचुः
असुरस्तारको नाम त्वया दत्तवरः प्रभो
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम्
MBh 13.84.2
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः
MBh 13.84.3
ब्रह्मोवाच
समोऽहं सर्वभूतानामधर्मं नेह रोचये
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः
MBh 13.84.4
वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः
MBh 13.84.5
देवा ऊचुः
वरदानाद्भगवतो दैतेयो बलगर्वितः
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्
MBh 13.84.6
स हि नैव स्म देवानां नासुराणां न रक्षसाम्
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह
MBh 13.84.7
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते
न भविष्यति वोऽपत्यमिति सर्वजगत्पते
MBh 13.84.8
ब्रह्मोवाच
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः
स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम्
MBh 13.84.9
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः
MBh 13.84.10
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति
यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः
MBh 13.84.11
सनातनो हि संकल्पः काम इत्यभिधीयते
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत्
MBh 13.84.12
तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति
MBh 13.84.13
स तु नावाप तं शापं नष्टः स हुतभुक्तदा
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः
MBh 13.84.14
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्
तारकस्य वधोपायः कथितो वै मयानघाः
MBh 13.84.15
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै
बलान्यतिबलं प्राप्य नबलानि भवन्ति वै
MBh 13.84.16
हन्यादवध्यान्वरदानपि चैव तपस्विनः
संकल्पाभिरुचिः कामः सनातनतमोऽनलः
MBh 13.84.17
जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः
MBh 13.84.18
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः
स वो मनोगतं कामं देवः संपादयिष्यति
MBh 13.84.19
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः
जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम्
MBh 13.84.20
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः
MBh 13.84.21
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः
लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह
नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम्
MBh 13.84.22
ततः संजातसंत्रासानग्नेर्दर्शनलालसान्
जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः
उवाच देवान्मण्डूको रसातलतलोत्थितः
MBh 13.84.23
रसातलतले देवा वसत्यग्निरिति प्रभो
संतापादिह संप्राप्तः पावकप्रभवादहम्
MBh 13.84.24
स संसुप्तो जले देवा भगवान्हव्यवाहनः
अपः संसृज्य तेजोभिस्तेन संतापिता वयम्
MBh 13.84.25
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः
तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना
MBh 13.84.26
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्
MBh 13.84.27
हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम्
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै
MBh 13.84.28
तं स संयुज्य शापेन मण्डूकं पावको ययौ
अन्यत्र वासाय विभुर्न च देवानदर्शयत्
MBh 13.84.29
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह
यत्तच्छृणु महाबाहो गदतो मम सर्वशः
MBh 13.84.30
देवा ऊचुः
अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः
सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ
MBh 13.84.31
बिलवासगतांश्चैव निरादानानचेतसः
गतासूनपि वः शुष्कान्भूमिः संधारयिष्यति
तमोगतायामपि च निशायां विचरिष्यथ
MBh 13.84.32
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम्
MBh 13.84.33
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः
अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह
MBh 13.84.34
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह
MBh 13.84.35
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया
MBh 13.84.36
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो
देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः
MBh 13.84.37
देवा ऊचुः
प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम्
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः
MBh 13.84.38
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्
MBh 13.84.39
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि
जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा
MBh 13.84.40
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः
भविता न त्वमत्यन्तं शकुने नष्टवागिति
MBh 13.84.41
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्
MBh 13.84.42
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि
MBh 13.84.43
ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते
उत्पादने तथोपायमनुजग्मुश्च मानवाः
MBh 13.84.44
आपो रसातले यास्तु संसृष्टाश्चित्रभानुना
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव
पावकेनाधिशयता संतप्तास्तस्य तेजसा
MBh 13.84.45
ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा
किमागमनमित्येवं तानपृच्छत पावकः
MBh 13.84.46
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति
कृते च तस्मिन्भविता तवापि सुमहान्गुणः
MBh 13.84.47
अग्निरुवाच
ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः
भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा
MBh 13.84.48
देवा ऊचुः
असुरस्तारको नाम ब्रह्मणो वरदर्पितः
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम्
MBh 13.84.49
इमान्देवगणांस्तात प्रजापतिगणांस्तथा
ऋषींश्चापि महाभागान्परित्रायस्व पावक
MBh 13.84.50
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन
MBh 13.84.51
शप्तानां नो महादेव्या नान्यदस्ति परायणम्
अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः
MBh 13.84.52
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक्
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति
MBh 13.84.53
तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा
MBh 13.84.54
तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना
संतापमगमत्तीव्रं सा सोढुं न शशाक ह
MBh 13.84.55
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते
गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत्
MBh 13.84.56
अबुद्धापतितेनाथ नादेन विपुलेन सा
वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना
विसंज्ञा नाशकद्गर्भं संधारयितुमात्मना
MBh 13.84.57
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी
उवाच वचनं विप्र तदा गर्भबलोद्धता
न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे
MBh 13.84.58
विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम्
विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ
MBh 13.84.59
धारणे नास्य शक्ताहं गर्भस्य तपतां वर
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन
MBh 13.84.60
न चेतसोऽस्ति संस्पर्शो मम देव विभावसो
आपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते
MBh 13.84.61
यदत्र गुणसंपन्नमितरं वा हुताशन
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ
MBh 13.84.62
तामुवाच ततो वह्निर्धार्यतां धार्यतामयम्
गर्भो मत्तेजसा युक्तो महागुणफलोदयः
MBh 13.84.63
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा
न हि ते किंचिदप्राप्यं मद्रेतोधारणादृते
MBh 13.84.64
सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा
MBh 13.84.65
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता
नाशकत्तं तदा गर्भं संधारयितुमोजसा
MBh 13.84.66
सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम्
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः
MBh 13.84.67
कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे
MBh 13.84.68
गङ्गोवाच
जातरूपः स गर्भो वै तेजसा त्वमिवानल
सुवर्णो विमलो दीप्तः पर्वतं चावभासयत्
MBh 13.84.69
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर
MBh 13.84.70
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत
MBh 13.84.71
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च
व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम्
MBh 13.84.72
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत
MBh 13.84.73
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्
जगामेष्टं ततो देशं तदा भार्गवनन्दन
MBh 13.84.74
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा
पृथिवी च तदा देवी ख्याता वसुमतीति वै
MBh 13.84.75
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः
MBh 13.84.76
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्
जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः
MBh 13.84.77
ततः स कार्त्तिकेयत्वमवाप परमद्युतिः
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत्
MBh 13.84.78
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्
MBh 13.84.79
ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम्
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः
MBh 13.84.80
पवित्राणां पवित्रं हि कनकं द्विजसत्तम
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्
MBh 13.84.81
रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम्
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 83
- Next chapter · Anuśāsana-Parva Ch 85 →
Sources and Connected Readings
Continue from these 81 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.84local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷