🪷 Mahābhārata · Anuśāsana-Parva · Chapter 83

The Book of the Final Teaching · Parva 13 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 57 Shlokas

MBh 13.83.1
युधिष्ठिर उवाच उक्तं पितामहेनेदं गवां दानमनुत्तमम् विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम्
MBh 13.83.2
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः
MBh 13.83.3
पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम् पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन
MBh 13.83.4
एवमेव गवामुक्तं प्रदानं ते नृगेण ह ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम्
MBh 13.83.5
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम्
MBh 13.83.6
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै एतदिच्छाम्यहं श्रोतुं पितामह यथातथम्
MBh 13.83.7
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् किं दानं किं फलं चैव कस्माच्च परमुच्यते
MBh 13.83.8
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते
MBh 13.83.9
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् परमं दक्षिणार्थे च तद्ब्रवीहि पितामह
MBh 13.83.10
भीष्म उवाच शृणु राजन्नवहितो बहुकारणविस्तरम् जातरूपसमुत्पत्तिमनुभूतं च यन्मया
MBh 13.83.11
पिता मम महातेजाः शंतनुर्निधनं गतः तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम्
MBh 13.83.12
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् माता मे जाह्नवी चैव साहाय्यमकरोत्तदा
MBh 13.83.13
ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् तोयप्रदानात्प्रभृति कार्याण्यहमथारभम्
MBh 13.83.14
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः दातुं निर्वपणं सम्यग्यथावदहमारभम्
MBh 13.83.15
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते
MBh 13.83.16
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ
MBh 13.83.17
ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतः नायं वेदेषु विहितो विधिर्हस्त इति प्रभो पिण्डो देयो नरेणेह ततो मतिरभून्मम
MBh 13.83.18
साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति
MBh 13.83.19
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन्
MBh 13.83.20
ततो दर्भेषु तत्सर्वमददं भरतर्षभ शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ
MBh 13.83.21
ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा
MBh 13.83.22
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः
MBh 13.83.23
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः
MBh 13.83.24
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः प्रमाणमुपनीता वै स्थितिश्च न विचालिता
MBh 13.83.25
तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति
MBh 13.83.26
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः पाविता वै भविष्यन्ति पावनं परमं हि तत्
MBh 13.83.27
दश पूर्वान्दश परांस्तथा संतारयन्ति ते सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन्
MBh 13.83.28
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते सुवर्णदानेऽकरवं मतिं भरतसत्तम
MBh 13.83.29
इतिहासमिमं चापि शृणु राजन्पुरातनम् जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च
MBh 13.83.30
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
MBh 13.83.31
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्
MBh 13.83.32
वाजिमेधं महाराज सर्वकामसमन्वितम् पावनं सर्वभूतानां तेजोद्युतिविवर्धनम्
MBh 13.83.33
विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत
MBh 13.83.34
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता पप्रच्छागमसंपन्नानृषीन्देवांश्च भार्गवः
MBh 13.83.35
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् तदुच्यतां महाभागा इति जातघृणोऽब्रवीत्
MBh 13.83.36
वसिष्ठ उवाच देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम्
MBh 13.83.37
तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः
MBh 13.83.38
भूय एव च माहात्म्यं सुवर्णस्य निबोध मे गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर
MBh 13.83.39
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै
MBh 13.83.40
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह
MBh 13.83.41
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन समागमे भगवतो देव्या सह महात्मनः ततः सर्वे समुद्विग्ना भगवन्तमुपागमन्
MBh 13.83.42
ते महादेवमासीनं देवीं च वरदामुमाम् प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह
MBh 13.83.43
अयं समागमो देव देव्या सह तवानघ तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः अमोघतेजास्त्वं देव देवी चेयमुमा तथा
MBh 13.83.44
अपत्यं युवयोर्देव बलवद्भविता प्रभो तन्नूनं त्रिषु लोकेषु न किंचिच्छेषयिष्यति
MBh 13.83.45
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम्
MBh 13.83.46
इति तेषां कथयतां भगवान्गोवृषध्वजः एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत
MBh 13.83.47
इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः
MBh 13.83.48
रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः
MBh 13.83.49
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ
MBh 13.83.50
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति
MBh 13.83.51
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह देवा देव्यास्तथा शापादनपत्यास्तदाभवन्
MBh 13.83.52
रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि
MBh 13.83.53
तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् तेजस्तेजसि संपृक्तमेकयोनित्वमागतम्
MBh 13.83.54
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः असुरस्तारको नाम तेन संतापिता भृशम्
MBh 13.83.55
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात्
MBh 13.83.56
स्थानानि देवतानां हि विमानानि पुराणि च ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः
MBh 13.83.57
ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 57 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.83local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷