🪷 Mahābhārata · Anuśāsana-Parva · Chapter 82

The Book of the Final Teaching · Parva 13 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 47 Shlokas

MBh 13.82.1
भीष्म उवाच ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर
MBh 13.82.2
ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते
MBh 13.82.3
दानानामपि सर्वेषां गवां दानं प्रशस्यते गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्
MBh 13.82.4
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह पयो दधि घृतं यासां सर्वपापप्रमोचनम्
MBh 13.82.5
गावस्तेजः परं प्रोक्तमिह लोके परत्र च न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ
MBh 13.82.6
अत्राप्युदाहरन्तीममितिहासं पुरातनम् पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर
MBh 13.82.7
पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः
MBh 13.82.8
अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः देवासुरसुपर्णाश्च प्रजानां पतयस्तथा पर्युपासन्त कौरव्य कदाचिद्वै पितामहम्
MBh 13.82.9
नारदः पर्वतश्चैव विश्वावसुहहाहुहू दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम्
MBh 13.82.10
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक्
MBh 13.82.11
तस्मिन्देवसमावाये सर्वभूतसमागमे दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च
MBh 13.82.12
देवानां भगवन्कस्माल्लोकेशानां पितामह उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम्
MBh 13.82.13
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम्
MBh 13.82.14
ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् अवज्ञातास्त्वया नित्यं गावो बलनिसूदन
MBh 13.82.15
तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो गवां प्रभावं परमं माहात्म्यं च सुरर्षभ
MBh 13.82.16
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन
MBh 13.82.17
धारयन्ति प्रजाश्चैव पयसा हविषा तथा एतासां तनयाश्चापि कृषियोगमुपासते
MBh 13.82.18
जनयन्ति च धान्यानि बीजानि विविधानि च ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः
MBh 13.82.19
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः
MBh 13.82.20
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा वासवाकूटवाहिन्यः कर्मणा सुकृतेन च उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि
MBh 13.82.21
एतत्ते कारणं शक्र निवासकृतमद्य वै गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो
MBh 13.82.22
एता हि वरदत्ताश्च वरदाश्चैव वासव सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः
MBh 13.82.23
यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन
MBh 13.82.24
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते
MBh 13.82.25
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा
MBh 13.82.26
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः दक्षस्य दुहिता देवी सुरभिर्नाम नामतः
MBh 13.82.27
अतप्यत तपो घोरं हृष्टा धर्मपरायणा कैलासशिखरे रम्ये देवगन्धर्वसेविते
MBh 13.82.28
व्यतिष्ठदेकपादेन परमं योगमास्थिता दश वर्षसहस्राणि दश वर्षशतानि च
MBh 13.82.29
संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम्
MBh 13.82.30
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् किमर्थं तप्यते देवि तपो घोरमनिन्दिते
MBh 13.82.31
प्रीतस्तेऽहं महाभागे तपसानेन शोभने वरयस्व वरं देवि दातास्मीति पुरंदर
MBh 13.82.32
सुरभ्युवाच वरेण भगवन्मह्यं कृतं लोकपितामह एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ
MBh 13.82.33
ब्रह्मोवाच तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते
MBh 13.82.34
अलोभकाम्यया देवि तपसा च शुभेन ते प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते
MBh 13.82.35
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति
MBh 13.82.36
मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते
MBh 13.82.37
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे
MBh 13.82.38
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः न तत्र क्रमते मृत्युर्न जरा न च पावकः न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव
MBh 13.82.39
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च विमानानि च युक्तानि कामगानि च वासव
MBh 13.82.40
व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् तपसा महता चैव सुकृतेन च कर्मणा शक्यः समासादयितुं गोलोकः पुष्करेक्षण
MBh 13.82.41
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते न ते परिभवः कार्यो गवामरिनिसूदन
MBh 13.82.42
भीष्म उवाच एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर
MBh 13.82.43
एतत्ते सर्वमाख्यातं पावनं च महाद्युते पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम्
MBh 13.82.44
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति
MBh 13.82.45
गोषु भक्तश्च लभते यद्यदिच्छति मानवः स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः
MBh 13.82.46
पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात्
MBh 13.82.47
विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 47 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.82local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷