🪷 Mahābhārata · Anuśāsana-Parva · Chapter 81

The Book of the Final Teaching · Parva 13 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 13.81.1
युधिष्ठिर उवाच मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान्
MBh 13.81.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् गोभिर्नृपेह संवादं श्रिया भरतसत्तम
MBh 13.81.3
श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम्
MBh 13.81.4
गाव ऊचुः कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि विस्मिताः स्म महाभागे तव रूपस्य संपदा
MBh 13.81.5
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः
MBh 13.81.6
श्रीरुवाच लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः
MBh 13.81.7
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा
MBh 13.81.8
यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः
MBh 13.81.9
एवंप्रभावां मां गावो विजानीत सुखप्रदाम् इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः
MBh 13.81.10
गाव ऊचुः अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते
MBh 13.81.11
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया
MBh 13.81.12
श्रीरुवाच किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ न मां संप्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम्
MBh 13.81.13
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः
MBh 13.81.14
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
MBh 13.81.15
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे
MBh 13.81.16
गाव ऊचुः नावमन्यामहे देवि न त्वां परिभवामहे अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे
MBh 13.81.17
बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे
MBh 13.81.18
श्रीरुवाच अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति
MBh 13.81.19
महाभागा भवत्यो वै शरण्याः शरणागताम् परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् माननां त्वहमिच्छामि भवत्यः सततं शुभाः
MBh 13.81.20
अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते न वोऽस्ति कुत्सितं किंचिदङ्गेष्वालक्ष्यतेऽनघाः
MBh 13.81.21
पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ
MBh 13.81.22
भीष्म उवाच एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप
MBh 13.81.23
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे
MBh 13.81.24
श्रीरुवाच दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः
MBh 13.81.25
भीष्म उवाच एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत
MBh 13.81.26
एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् माहात्म्यं च गवां भूयः श्रूयतां गदतो मम

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.81local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷