🪷 Mahābhārata · Anuśāsana-Parva · Chapter 87
The Book of the Final Teaching · Parva 13 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 19 Shlokas
MBh 13.87.1
युधिष्ठिर उवाच
चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव
MBh 13.87.2
वैशंपायन उवाच
युधिष्ठिरेणैवमुक्तो भीष्मः शांतनवस्तदा
इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे
MBh 13.87.3
भीष्म उवाच
शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम्
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप
MBh 13.87.4
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
पिशाचकिंनराणां च पूज्या वै पितरः सदा
MBh 13.87.5
पितॄन्पूज्यादितः पश्चाद्देवान्संतर्पयन्ति वै
तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा
MBh 13.87.6
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते
तच्चामिषेण विधिना विधिः प्रथमकल्पितः
MBh 13.87.7
सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान्
MBh 13.87.8
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे
MBh 13.87.9
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः
MBh 13.87.10
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे
MBh 13.87.11
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः
MBh 13.87.12
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात्
MBh 13.87.13
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः
MBh 13.87.14
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि
MBh 13.87.15
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते
रजतं बहु चित्रं च सुवर्णं च मनोरमम्
MBh 13.87.16
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम्
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे
MBh 13.87.17
युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम्
अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात्
MBh 13.87.18
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्
श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः
MBh 13.87.19
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 86
- Next chapter · Anuśāsana-Parva Ch 88 →
Sources and Connected Readings
Continue from these 19 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.87local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷