🪷 Mahābhārata · Anuśāsana-Parva · Chapter 77
The Book of the Final Teaching · Parva 13 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 24 Shlokas
MBh 13.77.1
भीष्म उवाच
एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्
इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः
MBh 13.77.2
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम्
पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे
MBh 13.77.3
सौदास उवाच
त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम्
MBh 13.77.4
भीष्म उवाच
तस्मै प्रोवाच वचनं प्रणताय हितं तदा
गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः
MBh 13.77.5
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्
MBh 13.77.6
गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति
अन्नं हि सततं गावो देवानां परमं हविः
MBh 13.77.7
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः
MBh 13.77.8
सायं प्रातश्च सततं होमकाले महामते
गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ
MBh 13.77.9
कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो
MBh 13.77.10
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते
MBh 13.77.11
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः
समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः
MBh 13.77.12
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते
MBh 13.77.13
युवानमिन्द्रियोपेतं शतेन सह यूथपम्
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम्
MBh 13.77.14
वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप
ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः
MBh 13.77.15
नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत्
सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात्
MBh 13.77.16
गवां मूत्रपुरीषस्य नोद्विजेत कदाचन
न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते
MBh 13.77.17
गाश्च संकीर्तयेन्नित्यं नावमन्येत गास्तथा
अनिष्टं स्वप्नमालक्ष्य गां नरः संप्रकीर्तयेत्
MBh 13.77.18
गोमयेन सदा स्नायाद्गोकरीषे च संविशेत्
श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत्
MBh 13.77.19
सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम्
वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते
MBh 13.77.20
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते
MBh 13.77.21
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः
रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते
MBh 13.77.22
गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः
सुरभ्यः सौरभेयाश्च सरितः सागरं यथा
MBh 13.77.23
गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा
गावोऽस्माकं वयं तासां यतो गावस्ततो वयम्
MBh 13.77.24
एवं रात्रौ दिवा चैव समेषु विषमेषु च
महाभयेषु च नरः कीर्तयन्मुच्यते भयात्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 76
- Next chapter · Anuśāsana-Parva Ch 78 →
Sources and Connected Readings
Continue from these 24 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.77local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷