🪷 Mahābhārata · Anuśāsana-Parva · Chapter 76

The Book of the Final Teaching · Parva 13 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 13.76.1
वैशंपायन उवाच ततो युधिष्ठिरो राजा भूयः शांतनवं नृप गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः
MBh 13.76.2
युधिष्ठिर उवाच गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम्
MBh 13.76.3
इत्युक्तो धर्मराजेन तदा शांतनवो नृप सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान्
MBh 13.76.4
भीष्म उवाच वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते
MBh 13.76.5
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम्
MBh 13.76.6
जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत्
MBh 13.76.7
दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः
MBh 13.76.8
बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा
MBh 13.76.9
युधिष्ठिर उवाच कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम्
MBh 13.76.10
भीष्म उवाच वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा
MBh 13.76.11
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया
MBh 13.76.12
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो
MBh 13.76.13
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः
MBh 13.76.14
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः
MBh 13.76.15
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत्
MBh 13.76.16
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः प्रजापतिर्बलाधानममृतं प्रापिबत्तदा
MBh 13.76.17
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम्
MBh 13.76.18
सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः
MBh 13.76.19
तासाममृतवर्णानां क्षरन्तीनां समन्ततः बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः
MBh 13.76.20
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव
MBh 13.76.21
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते नानावर्णत्वमनयन्मेघानिव दिवाकरः
MBh 13.76.22
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम्
MBh 13.76.23
अथ क्रुद्धं महादेवं प्रजापतिरभाषत अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम्
MBh 13.76.24
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः
MBh 13.76.25
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः नामृतेनामृतं पीतं वत्सपीता न वत्सला
MBh 13.76.26
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम्
MBh 13.76.27
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः प्रसादयामास मनस्तेन रुद्रस्य भारत
MBh 13.76.28
प्रीतश्चापि महादेवश्चकार वृषभं तदा ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः
MBh 13.76.29
ततो देवैर्महादेवस्तदा पशुपतिः कृतः ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते
MBh 13.76.30
एवमव्यग्रवर्णानां कपिलानां महौजसाम् प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः
MBh 13.76.31
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात्
MBh 13.76.32
इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रियः विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान्पशुधनमाप्नुयात्तथा
MBh 13.76.33
हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम् एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुयाद्वै सदैव
MBh 13.76.34
वैशंपायन उवाच पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः
MBh 13.76.35
तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.76local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷