🪷 Mahābhārata · Anuśāsana-Parva · Chapter 78

The Book of the Final Teaching · Parva 13 · 27 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 27 Shlokas

MBh 13.78.1
वसिष्ठ उवाच शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति
MBh 13.78.2
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः भवेम न च लिप्येम दोषेणेति परंतप
MBh 13.78.3
स एव चेतसा तेन हतो लिप्येत सर्वदा शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः
MBh 13.78.4
तथा सर्वाणि भूतानि स्थावराणि चराणि च प्रदातारश्च गोलोकान्गच्छेयुरिति मानद
MBh 13.78.5
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः एवं भवत्विति विभुर्लोकांस्तारयतेति च
MBh 13.78.6
उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः तपसोऽन्ते महाराज गावो लोकपरायणाः
MBh 13.78.7
तस्माद्गावो महाभागाः पवित्रं परमुच्यते तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि
MBh 13.78.8
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते
MBh 13.78.9
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते
MBh 13.78.10
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् सुव्रतां वस्त्रसंवीतां सोमलोके महीयते
MBh 13.78.11
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते
MBh 13.78.12
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् सुव्रतां वस्त्रसंवीतामग्निलोके महीयते
MBh 13.78.13
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते
MBh 13.78.14
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते
MBh 13.78.15
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् प्रदाय वस्त्रसंवीतां वायुलोके महीयते
MBh 13.78.16
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते
MBh 13.78.17
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् प्रदाय वस्त्रसंवीतां पितृलोके महीयते
MBh 13.78.18
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलंकृताम् वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते
MBh 13.78.19
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते
MBh 13.78.20
पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते
MBh 13.78.21
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलंकृतम् प्रदाय मरुतां लोकानजरान्प्रतिपद्यते
MBh 13.78.22
वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः
MBh 13.78.23
शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम् दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते
MBh 13.78.24
गोप्रदानरतो याति भित्त्वा जलदसंचयान् विमानेनार्कवर्णेन दिवि राजन्विराजता
MBh 13.78.25
तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम्
MBh 13.78.26
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते
MBh 13.78.27
यावन्ति लोमानि भवन्ति धेन्वा;स्तावन्ति वर्षाणि महीयते सः स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 27 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.78local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷