🪷 Mahābhārata · Anuśāsana-Parva · Chapter 70

The Book of the Final Teaching · Parva 13 · 56 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 56 Shlokas

MBh 13.70.1
युधिष्ठिर उवाच दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मेऽनघ विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम्
MBh 13.70.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः
MBh 13.70.3
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् त्वं मामुपचरस्वेति नाचिकेतमभाषत समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत्
MBh 13.70.4
उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् विस्मृतं मे तदादाय नदीतीरादिहाव्रज
MBh 13.70.5
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः
MBh 13.70.6
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा यमं पश्येति तं पुत्रमशपत्स महातपाः
MBh 13.70.7
तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि
MBh 13.70.8
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः किं मया कृतमित्युक्त्वा निपपात महीतले
MBh 13.70.9
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी
MBh 13.70.10
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम्
MBh 13.70.11
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम्
MBh 13.70.12
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः
MBh 13.70.13
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत्
MBh 13.70.14
कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम् वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम्
MBh 13.70.15
दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजयामास मां सः
MBh 13.70.16
ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम् प्राप्तोऽस्मि ते विषयं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व
MBh 13.70.17
यमोऽब्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम्
MBh 13.70.18
दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान्वृणीष्व
MBh 13.70.19
तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् इच्छाम्यहं पुण्यकृतां समृद्धाँ;ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः
MBh 13.70.20
यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम् संदर्शयामास तदा स्म लोका;न्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र
MBh 13.70.21
अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् नानासंस्थानरूपाणि सर्वरत्नमयानि च
MBh 13.70.22
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च अनेकशतभौमानि सान्तर्जलवनानि च
MBh 13.70.23
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च तरुणादित्यवर्णानि स्थावराणि चराणि च
MBh 13.70.24
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान्
MBh 13.70.25
नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः घोषवन्ति च यानानि युक्तान्येव सहस्रशः
MBh 13.70.26
क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोयम् वैवस्वतस्यानुमतांश्च देशा;नदृष्टपूर्वान्सुबहूनपश्यम्
MBh 13.70.27
सर्वं दृष्ट्वा तदहं धर्मराज;मवोचं वै प्रभविष्णुं पुराणम् क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः
MBh 13.70.28
यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम् अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम्
MBh 13.70.29
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम्
MBh 13.70.30
स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रमासाम् कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः
MBh 13.70.31
तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः वत्सैः प्रीताः सुप्रजाः सोपचारा;स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्
MBh 13.70.32
दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलायिनीं च यावन्ति लोमानि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्
MBh 13.70.33
तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम् कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य
MBh 13.70.34
गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः वृत्तिग्लाने संभ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम्
MBh 13.70.35
गुर्वर्थे वा बालपुष्ट्याभिषङ्गा;द्गावो दातुं देशकालोऽविशिष्टः अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौदकाश्च
MBh 13.70.36
नाचिकेत उवाच श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति
MBh 13.70.37
ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः
MBh 13.70.38
अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव
MBh 13.70.39
घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते
MBh 13.70.40
तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः स कामप्रवहां शीतां नदीमेतामुपाश्नुते
MBh 13.70.41
एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् दृष्ट्वा च परमं हर्षमवापमहमच्युत
MBh 13.70.42
निवेदये चापि प्रियं भवत्सु; क्रतुर्महानल्पधनप्रचारः प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः
MBh 13.70.43
शापो ह्ययं भवतोऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश्चरिष्ये
MBh 13.70.44
इदं च मामब्रवीद्धर्मराजः; पुनः पुनः संप्रहृष्टो द्विजर्षे दानेन तात प्रयतोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः
MBh 13.70.45
शुद्धो ह्यर्थो नावमन्यः स्वधर्मा;त्पात्रे देयं देशकालोपपन्ने तस्माद्गावस्ते नित्यमेव प्रदेया; मा भूच्च ते संशयः कश्चिदत्र
MBh 13.70.46
एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः तपांस्युग्राण्यप्रतिशङ्कमाना;स्ते वै दानं प्रददुश्चापि शक्त्या
MBh 13.70.47
काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके
MBh 13.70.48
एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा
MBh 13.70.49
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने तीर्थावाप्तिर्गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने
MBh 13.70.50
गामप्येकां कपिलां संप्रदाय; न्यायोपेतां कल्मषाद्विप्रमुच्येत् गवां रसात्परमं नास्ति किंचि;द्गवां दानं सुमहत्तद्वदन्ति
MBh 13.70.51
गावो लोकान्धारयन्ति क्षरन्त्यो; गावश्चान्नं संजनयन्ति लोके यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरयं पापचेताः
MBh 13.70.52
यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः अप्येकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन्पुण्यतीर्था नदी वै
MBh 13.70.53
प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम् शब्दश्चैकः संततिश्चोपभोग;स्तस्माद्गोदः सूर्य इवाभिभाति
MBh 13.70.54
गुरुं शिष्यो वरयेद्गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधयः संश्रयन्ति
MBh 13.70.55
एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य त्वय्याशंसन्त्यमरा मानवाश्च; वयं चापि प्रसृते पुण्यशीलाः
MBh 13.70.56
इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 56 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.70local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷