🪷 Mahābhārata · Anuśāsana-Parva · Chapter 69
The Book of the Final Teaching · Parva 13 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 13.69.1
भीष्म उवाच
अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह
MBh 13.69.2
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः
अदृश्यत महाकूपस्तृणवीरुत्समावृतः
MBh 13.69.3
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते
MBh 13.69.4
ददृशुस्ते महाकायं कृकलासमवस्थितम्
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः
MBh 13.69.5
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम्
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम्
MBh 13.69.6
खमावृत्योदपानस्य कृकलासः स्थितो महान्
तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन्
MBh 13.69.7
स वासुदेवेन समुद्धृतश्च; पृष्टश्च कामान्निजगाद राजा
नृगस्तदात्मानमथो न्यवेदय;त्पुरातनं यज्ञसहस्रयाजिनम्
MBh 13.69.8
तथा ब्रुवाणं तु तमाह माधवः; शुभं त्वया कर्म कृतं न पापकम्
कथं भवान्दुर्गतिमीदृशीं गतो; नरेन्द्र तद्ब्रूहि किमेतदीदृशम्
MBh 13.69.9
शतं सहस्राणि शतं गवां पुनः; पुनः शतान्यष्ट शतायुतानि
त्वया पुरा दत्तमितीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद्गतं तव
MBh 13.69.10
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने
MBh 13.69.11
गवां सहस्रे संख्याता तदा सा पशुपैर्मम
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता
MBh 13.69.12
अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः
ममेयमिति चोवाच ब्राह्मणो यस्य साभवत्
MBh 13.69.13
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ
भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः
MBh 13.69.14
शतेन शतसंख्येन गवां विनिमयेन वै
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम्
MBh 13.69.15
देशकालोपसंपन्ना दोग्ध्री क्षान्तातिवत्सला
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने
MBh 13.69.16
कृशं च भरते या गौर्मम पुत्रमपस्तनम्
न सा शक्या मया हातुमित्युक्त्वा स जगाम ह
MBh 13.69.17
ततस्तमपरं विप्रं याचे विनिमयेन वै
गवां शतसहस्रं वै तत्कृते गृह्यतामिति
MBh 13.69.18
ब्राह्मण उवाच
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन
MBh 13.69.19
रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः
MBh 13.69.20
एतस्मिन्नेव काले तु चोदितः कालधर्मणा
पितृलोकमहं प्राप्य धर्मराजमुपागमम्
MBh 13.69.21
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्
नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः
MBh 13.69.22
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि
MBh 13.69.23
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव
ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः
MBh 13.69.24
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो
धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले
MBh 13.69.25
अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः
वासुदेवः समुद्धर्ता भविता ते जनार्दनः
MBh 13.69.26
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते
प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा
MBh 13.69.27
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह
तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः
MBh 13.69.28
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात्
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै
MBh 13.69.29
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम्
विमानं दिव्यमास्थाय ययौ दिवमरिंदम
MBh 13.69.30
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम
वासुदेव इमं श्लोकं जगाद कुरुनन्दन
MBh 13.69.31
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव
MBh 13.69.32
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते
विमुक्तं नरकात्पश्य नृगं साधुसमागमात्
MBh 13.69.33
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः
अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 68
- Next chapter · Anuśāsana-Parva Ch 70 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.69local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷