🪷 Mahābhārata · Anuśāsana-Parva · Chapter 68

The Book of the Final Teaching · Parva 13 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 13.68.1
युधिष्ठिर उवाच भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् कथयस्व महाप्राज्ञ भूमिदानं विशेषतः
MBh 13.68.2
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति
MBh 13.68.3
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि
MBh 13.68.4
भीष्म उवाच तुल्यनामानि देयानि त्रीणि तुल्यफलानि च सर्वकामफलानीह गावः पृथ्वी सरस्वती
MBh 13.68.5
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते
MBh 13.68.6
तथैव गाः प्रशंसन्ति न च देयं ततः परम् संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर मातरः सर्वभूतानां गावः सर्वसुखप्रदाः
MBh 13.68.7
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि
MBh 13.68.8
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन
MBh 13.68.9
प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम्
MBh 13.68.10
पितृसद्मानि सततं देवतायतनानि च पूयन्ते शकृता यासां पूतं किमधिकं ततः
MBh 13.68.11
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम्
MBh 13.68.12
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति
MBh 13.68.13
युधिष्ठिर उवाच देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् कीदृशाय प्रदातव्या न देयाः कीदृशाय च
MBh 13.68.14
भीष्म उवाच असद्वृत्ताय पापाय लुब्धायानृतवादिने हव्यकव्यव्यपेताय न देया गौः कथंचन
MBh 13.68.15
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान्
MBh 13.68.16
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः
MBh 13.68.17
यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः
MBh 13.68.18
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः
MBh 13.68.19
वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च
MBh 13.68.20
यः क्षुद्भयाद्वै न विकर्म कुर्या;न्मृदुर्दान्तश्चातिथेयश्च नित्यम् वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः
MBh 13.68.21
शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारे सर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.68local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷